2023-12-26 07:36:30 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

१०३२
 
न्यायकोशः ।
 
पुण्यं शतकोटिप्रविस्तरम् ॥ अनन्तरं च वक्रेभ्यो वेदास्तस्य विनिःसृताः ।

मीमांसा न्यायविद्याश्च प्रमाणाष्टकसंयुताः ॥ इत्यादिसृष्टिप्रकारः सविस्तरो

द्रष्टव्यः । इदानीं सृष्टिक्रमः कथ्यते । प्राणिनां भोगभूतये परमेश्वरस्य

सिसृक्षा जायते । सर्गादौ भगवानीश्वरः प्रयोज्य प्रयोजकवृद्धशरीरद्वयं

परिगृह्य तथा व्यवहरति । ततस्तद्व्यवहाराद्वाल: पूर्ववत्संकेतं गृह्णाति

( न्या० म० ४ पृ० ५ ) । ततो लब्धवृत्तिकादृष्टविशिष्टात्मसंयोगात्

दोधूयमानेषु पवनपरमाणुषु प्रथमतः कर्मोत्पत्तिः । ततो द्वयोः पवन-

परमाण्वोः संयोगः । ततो द्व्यणुकोत्पत्तिः । ततस्त्रिषु द्व्यणुकेषु कर्मों-

त्पत्तिः । ततस्तेषां संयोगः । ततत्र्यणुकोत्पत्तिः । एवं चतुरणुकाद्युत्पत्ति-

क्रमेण महावायुरुत्पद्य विहायसि दोधूयमानस्तिष्ठति । ततस्तस्मिन्वायौ

जलपरमाणुभ्यो द्यणुकादिक्रमेण महाजलराशिरुत्पन्नः पोलूयमानः

तिष्ठति । ततस्तस्मिन्महोदधौ पृथिवीपरमाणुतो द्यणुकादिक्रमेण महा-

पृथिव्युत्पद्य संहतावतिष्ठते । ततः तस्मिन्नेव जले तैजसेभ्य उत्पन्नो

महातेजोराशिर्देदीप्यमानस्तिष्ठति इति । तत्र तेजः परमाणुसहित पृथिवी-

परमाणुभिरीश्वराभिध्यानादण्डमुत्पद्यते तस्मिन्ब्रह्मोत्पद्यते ( त० वo
 
पवनपर•
 

पवनपर
१२५ - १२७) ( सि० च० ) इति । अथ प्रकारान्तरेण सृष्टि-

विधिरुच्यते । खण्डप्रलयानन्तरम् प्राणिनां भोगभूतये परमेश्वरस्य

सिसृक्षानन्तरं सर्वात्मगतवृत्तिलब्धादृष्टापेक्षेभ्यस्तत्संयोगेभ्यः

माणुषु कर्मोत्पत्तौ तेषां परस्पर संयोगेभ्यो द्यणुकादिक्रमेण महावायुः

समुत्पन्नो नभसि दोधूयमानस्तिष्ठति । तदनन्तरं तस्मिन्नेव वायावा-

व्येभ्यः परमाणुभ्यस्तेनैव क्रमेण महान् सलिलनिधिरुत्पन्नः पोठ्य-

मानस्तिष्ठति । तदनन्तरं तस्मिन्नेव सलिलनिधौ पार्थिवेभ्यः परमाणुभ्यो

व्यणुकादिक्रमेण समुत्पन्ना महापृथिवी संहता घनीभूतावतिष्ठते ।

तदनन्तरं तस्मिन्नेव महोदधौ तैजसेभ्यः परमाणुभ्यो ह्यणुकादिक्रमेण

समुत्पन्नो महांस्तेजोराशिर्देदीप्यमानस्तिष्ठति । एवं समुत्पन्नेषु चतुर्षु

महाभूतेषु परमेश्वरस्याभिध्यानमात्रात् ( इच्छामात्रात् न तु व्यापारा-

न्तरात्) तैजसेभ्योणुभ्यः पार्थिवादिपरमाणुसहितेभ्यो महदण्डमारभ्यते ।

तस्मिंश्चतुर्वदनं सकललोकपितामहं ब्रह्माणं सकलभुवनसहित