2023-12-26 07:35:24 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

१०३०
 
न्यायकोशः ।
 
-
 
<सूक्तवाकः - >
इदं द्यावापृथिवी भद्रमभूत् इत्यादिको मन्त्रः । यथा सूक्त -

वाकेन प्रस्तरं प्रहरति इति । प्रस्तरो दर्भमुष्टिः (जै० न्या० अ० ३

पा० २ अधि० ५) ।
 
सूक्ष्मम् –

 
<सूक्ष्मम्>
१ अत्यल्पः पदार्थः । यथा अणुपरिमाणयुतः परमाण्वादिः ।

यथा वा अध्यात्मपदार्थः सूक्ष्मशरीरम् । यथा वा केषांचिद्वेदान्तिनां

मते अपञ्चीकृतानि पृथिव्यादीनि पञ्च महाभूतानि सूक्ष्माणि तन्निर्मितं

शरीरं सूक्ष्मशरीरम् । तदुक्तम् पञ्चप्राणमनोबुद्धिदशेन्द्रिय समन्वितम् ।

अपञ्चीकृतभूतोत्थं सूक्ष्माङ्गं भोगसाधनम् ॥ इति । इदं च लोकान्तर-

गामि भोगोपभोगसमर्थ लिङ्गशरीरम् इत्युच्यते । सांख्यास्तु महद-

हंकारैकादशेन्द्रिय पञ्चतन्मात्राणां समुदायः सूक्ष्यशरीरम् । शान्तघोर-

मूढैरिन्द्रियैरन्वितत्वात् विशेषः इति प्रतिपेदिरे ( सांख्य० कौ० कारि०

४० ) । अत्रोक्तम् सूक्ष्मास्तेषां नियता मातापितृजा निवर्तन्ते (सांख्य

३९ ) इति । सूक्ष्मा: सूक्ष्मदेहाः । ते च अनुमिताः ।

परलोके कर्मफलभोगः सूक्ष्मदेहं विना अनुपपन्नो भोगत्वात् स्थूल-
का० श्लो०
 
1
 
अन्यथा
 
२ अर्था-

हारब्धकृष्यादिजनितस्य सस्यस्य स्वदेहेनैव भोगवत् इति । स्वदे

रब्धकर्मादिफलं यत् तत् स्वदेहेनैव भोग्यम् नेतरेण ।

कृतहाना कृताभ्यागमप्रसङ्गः इत्यादिस्तर्कस्तत्रानुसंधेयः ।

लंकारविशेषः । तदुक्तम् संलक्षितस्तु सूक्ष्मोर्थ आकारेणेङ्गितेन वा ।

कयापि सूच्यते भझ्या यत्र सूक्ष्मं तदुच्यते ॥ ( साहि० परि० १०

लो० ९१ ) । ३ कतकवृक्षः इति भिषज आहुः । ४ कैतवम् इति

काव्यज्ञा आहुः । ५ सूक्ष्मं संपूर्णषणं वासुदेवाख्यं परं ब्रह्म
 

( सर्व० पृ० ११६ रामा० ) ।
 
-
 
वैशेषिक
 
सूत्रम् –

 
<सूत्रम्>
१ शास्त्रीयवह्वर्थप्रतिपादकसंक्षिप्तवाक्यविशेषः । शास्त्रीयसूत्राणि

षड़िधानि ब्रह्ममीमांसासूत्रम् धर्ममीमांसासूत्रम् न्यायसूत्रम्
.

सूत्रम् सांख्यसूत्रम् योगसूत्रं चेति । अत्र वेदान्तिनः सूत्रलक्षणमाहुः ।

अल्पाक्षरमसंदिग्धं सारवद्विश्वतोमुखम् । अस्तोभमनवद्यं च सूत्र

सूत्रविदो विदुः ॥ ( मध्वमा० १११ प्रस्ताव० पृ० ३) इति । शाब्दि-