2023-12-26 07:33:14 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
१०२७
 

 
!
पैष्टी मुख्योक्ता न तस्यास्त्वितरे समे ( मनु० टी० कुल्लू० अ० ११

श्लो० ९० ) इति । पैष्टी तण्डुल पिष्टसाध्या अन्नविकारः ( मिता० ) ।

तदन्यन्मद्यम् । अत्र त्रैवर्णिकानामुत्पत्तिप्रभृति पैष्टीप्रतिषेधः । ब्राह्मणस्य

तु मद्यमात्रनिषेधोप्युत्पत्तिप्रभृत्येव । राजन्यवैश्ययोस्तु न कदाचिदपि

गौड्यादिमद्यप्रतिषेधः । शूद्रस्य तु न सुराप्रतिषेधः । नापि मद्यमात्र-

प्रतिषेधः ( मिताक्ष० अ० ३ श्लो० २५३ पृ० ८१ ) ( मनु०

अ० ११ श्लो० ९३ कुल्लूक० ) । कामतः सकृत्सुरापानेपि प्रायश्चित्तं

तु सुरां पीत्वा द्विजो मोहात् ( रागमूढतया ) अग्निवर्णी सुरां पिबेत् ।

तया स काये निर्दग्धे मुच्यते किल्बिषात्ततः ॥ ( मनु० अ० ११
लो०

० ९० ) इति । अकामतः जलादिबुद्ध्या सुरापाने तु द्वादश-

वार्षिकं ब्रह्महत्याव्रताचरणम् । छर्दनानन्तरं तु त्रैवर्षिकं पिण्याकादि-

भक्षणं प्रायश्चित्तम् । केवलतालुमात्रसुरासंयोगे तु वर्षपर्यन्तं सकृत्पिण्या-

कादिभक्षणं प्रायश्चित्तं बोध्यम् इति । मत्या मद्यपाने गौडीमाध्व्योर-

ज्ञानतः पाने च कृच्छ्रातिकृच्छ्रसहितः पुनः संस्कारः । अकामतोमुख्य-

सुरापाने तु वर्षपर्यन्तं प्रतिरात्रं सकृत् पिण्याकादिभक्षणम् तप्तकृच्छ्र-

पूर्वकं पुनरुपनयनादि च ज्ञेयम् ( याज्ञ० अ० ३श्लो० २५३-२५५ )

( मनु० अ० ११ श्लो० ९२ ) ।
 
·
 

 
<
सुवर्णम्>
१ (आकरजं तेजः) पार्थिवभागसंयुक्तो द्रवद्रव्यविशेषः । यथा


सुवर्णाङ्गुलीयकम् इत्यादौ सुवर्णशब्दार्थः । सुवर्णस्य तैजसवं यथा

पीतिमगुरुत्वाश्रयस्यात्यन्ताग्निसंयोगेपि पूर्वरूपापरावृत्तिदर्शनात् पूर्वरूप -

परावृत्तिप्रतिबन्धकं विजातीयं द्रवद्रव्यं कल्प्यते । तथा ह्यनुमानम् अग्नि-

संयोगिपीतिमगुरुत्वाश्रयः विजातीयरूपप्रतिबन्धकद्रबद्रव्यसंयुक्तः अत्य-

न्ताग्निसंयोगे सत्यपि पूर्वरूपविजातीयरूपानधिकरणपार्थिवत्वात् जलम-

मध्यस्थपीतपटवत् (मु० १ तेजो० पृ० ८१) इति । अत्रोक्तम् पीतिमा

च गुरुत्वं च दाहे यस्य च रक्तता । तस्य लोकप्रसिद्धस्य स्वर्णत्वं केन

वार्यते ॥ अनुच्छिन्नद्रवत्वं तु वस्तु यत्त्विह भासते । सुवर्णव्यवहारो

तन्त्रशास्त्रे प्रवर्तते ॥ वस्तुभेदे प्रसिद्धेपि शब्दसाम्यं प्रवर्तते । रसः