2023-10-19 11:28:01 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

५४
 
न्यायकोशः ।
 
<अपक्षेपणम्>
( कर्म ) [ क ] अधोदेशसंयोगहेतुः कर्म ( त० सं० )
(

( त० कौ० २० ) । [ख ] तद्विपर्ययेण ( उत्क्षेपणविपर्ययेण )

संयोगविभागकारणं कर्म ( प्रशस्त० पृ० ३७ ) । तल्लक्षणं च

अधोदेशसंयोगजनकक्रियानुकूल क्रियात्वम् ( ल० ० ३८ ) ।
 

 
<
अपगमः -- >
स्पन्दः ( ग० हेतु० ) । यथा वृक्षादपैतीत्यादौ धात्वर्थः ।

 
<
अपचिकीर्पा>
( द्रोहः ) अहितेच्छा ( ग० व्यु ० ४ ) ।
 

 

 
<
अपदेश: - >
१ कथनम् ( गौ० वृ० ३ । २ । २३ ) । यथा नोत्पत्तिकारणान-

पदेशात् ( गौ० ३ । २ । २३ ) इत्यादौ । २ हेतुः । यथा सोनपदेशः

इत्यादौ ( वै० ३ । १ । ३ ) ।
 
(
 
अपरत्वम् -

 
<अपरत्वम्>
१ व्याप्यत्वम् । यथा सामान्यं द्विविधं प्रोक्तं परं चापरमेव

च (भा० प० श्लो० ८) इत्यादौ अपरत्वशब्दस्यार्थः । अल्पदेशवृत्तित्वम्

(मु० १ । ३४ ) । यथा घटत्वजातेद्रव्यत्व पृथिवीत्रे अपेक्ष्याल्पदेशवृत्ति-

त्वम् । २ ( गुणः ) अपरव्यवहारे असाधारणं कारणम् ( त० सं० )

( त० कौ० ६ ) । अपरव्यवहारजनकतावच्छेदकतादृशप्रकारताश्रयत्वं

• लक्षणमित्यर्थः ( वाक्य ० ) । यथा अयं कनिष्ठः अयं समीप इत्यादौ

कनिष्ठसमीपयोरपरत्वम् (वाक्य ) । तद्विविधम् । दिकृतम् कालङ्कृतम् ।

समीपस्थे दिक्कृतमपरत्वम् । कनिष्ठे कालकृतमपरत्वम् ( त० सं० ) ।

• पर्यायान्तरेणाप्यपरत्वप्रपञ्चः कथ्यते । तद्यथा यो यदपेक्षया संनिहितस्तत्र

तदबधिकमपरत्वं दिक्कृतम् । अत्र दिपिण्डसंयोगोसमवायिकारणम् ।

संनिहितत्वज्ञानं निमित्तम् । तन्नाशश्च तन्नाशनिमित्तम् । दिक्कृतमपरत्वं मू-

. र्तद्रव्यमात्रवृत्ति भवति । यो यदपेक्षया कनिष्ठस्तत्र तदवधिकमपरत्वं

• कालकृतम् । अत्र कालपिण्डसंयोगोसमवायिकारणम् । कनिष्ठत्वज्ञानं निमि-

•त्तम् । तन्नाशश्च तन्नाशनिमित्तम् । कालकृतमपरत्वं तु जन्यद्रव्यमात्रवृत्ति

भवति ( त० कौ० ६ ) ( सि० च० १ । १८ ) । अत्र
 
दिक्कृतत्वं च

ज्ञायमान दिग्जन्यत्वम् ( वाक्य ० ) । अल्पतरमूर्त संयोग विशिष्टशरीरज्ञाना-

दपरत्वमुत्पद्यत इति ( सि० च० ११ १८ ) । यथा झळकीग्रामात्सो-