2023-12-26 07:15:45 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
१०२३
 
२ अवधिः । ३ स्थितिः । ४ अण्डकोशः ( मेदि० ) । यथा सीम्नि

पुष्कलको हतः इत्यादौ सीमन् शब्दस्यार्थः ( सि० कौ० सुब० ) ।
सु –

 
<सु>
( अव्ययम् ) १ प्रशंसा । यथा सुरूपः इत्यादौ सुशब्दस्यार्थः ।

२ अनुमतिः । यथा सुकृतम् इत्यादौ सुशब्दार्थः । ३ पूजा । यथा

सुसाधुः इत्यादौ सुसंस्तुतम् इत्यादौ च सुशब्दार्थः । ४ भृशम्

( अतिशयः ) । यथा सुतप्तः इत्यादौ सुशब्दस्यार्थः । ५ कृच्छ्रम् ।

यथा सुदुष्करम् इत्यादौ सुशब्दार्थः । ६ शुभम् । यथा सुगन्धः

इत्यादौ सुशब्दस्यार्थ: ( गण० ) । ७ अनायासः ( मेदि० ) । यथा

सुलभः इत्यादौ सुशब्दार्थः । ८ समृद्धिः । यथा सुभिक्षम् इत्यादौ

सुशब्दार्थः ।
 

 
<
सुखम्>
१ ( गुणः ) [क]
-
 
धर्ममात्रासाधारणकारणकगुणः ( सि०

च० गणनि० पृ० ३५ ) ( त० कौ० ) । सुखं तु जगतामेव काम्यं

धर्मेण जन्यते । तथा च धर्मत्वेन सुखत्वेन कार्यकारणभाव: (भा०प०
गु० श्लो०

T० १४६ ) । अयं च धर्मसुखयोः सामान्य कार्यकारणभावः प्राचां

मतेनोक्तः । नवीनमते तु नित्यं विज्ञानमानन्दं ब्रह्म इति श्रुत्या भगवति

नित्यसुखसिद्धौ धर्मस्य कार्यतावच्छेदकं जन्यसुखत्वम् सुखत्वावान्तर-

जातिर्वा इति बोध्यम् ( दि० गु० पृ० २२० ) । सुखस्य लक्षणं तु

सुख्यहम् इत्याद्यनुव्यवसायगम्यसुखत्वं जातिविशेष: ( त० दी० ) ।

यद्वा काम्यभावत्वम् । अथ वा इतरेच्छानधीनेच्छाविषयत्वे सति भावत्वम्

( न्या० बो० ) । दुःखाभावस्य काम्यस्वेपि स्वतः पुरुषार्थत्वेपि च

तस्य भावत्वाभावान्नातिव्याप्तिः । [ख ] इतरेच्छानधीनेच्छाविषयी भूतो

गुणः । सुखेच्छा सुखत्वप्रकारकज्ञानेनैव जन्यते । नेष्टसाधनत्वज्ञा-
नेनापि

। तथा च उपायेच्छाया इष्टसाधनत्व विषयकज्ञानेनापि जन्य-

त्वेन तादृशज्ञानजन्योपायेच्छाविषयत्वेपि इतरेच्छानधीनेच्छाविषयत्वा-

भावेन नोपायेतिव्याप्तिः । अत एव सुखानन्तरमिष्टान्तरस्याभावात्

सुखस्य स्वतः पुरुषार्थत्वमुपपद्यते ( मु० गु० पृ० २२१ ) इति ।

अत्र मतभेदः । सुखं चात्मधर्मः इति नैयायिका आहुः । तच्च चित्त-