2023-12-26 07:00:22 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

१०१६
 
न्यायकोशः ।
 
FAUNA
 
ज्ञानमित्यस्यार्थश्च इन्द्रियसंबद्ध विशेष्यकं सामान्यप्रकारकं ज्ञानम् इति ।

अत्रार्थे व्युत्पत्ति: सामान्यं लक्षणं निरूपकं विषयः यस्य तत् (मु०

१ पृ० १३०) ( दीधि० २ पृ० ८० ) इति । इदानीं सामान्य

लक्षणज्ञानलक्षणयोः संनिकर्षयोर्भेद उच्यते । तत्र सामान्यलक्षण-

संनिकर्षः सामान्याश्रय सकलव्यक्तिविषयकं ज्ञानं जनयति । ज्ञानलक्षण-

संनिकर्षस्तु यस्य सामान्यस्य ज्ञानं संनिकर्षः अस्ति तस्यैव ज्ञानं जनयति

( भा०प० ) (मु० ) इति । अथ कारणतावच्छेदकभेदेन कार्य-

तावच्छेदकमेदेन च तयोर्भेद उच्यते । तत्र सामान्यलक्षणायाः कार्य-

कारणभावश्च तत्तत्संबन्धावच्छिन्नघटत्वादिप्रकारिताशालिज्ञानत्वेन स्वरू

पतस्तत्संबन्धावच्छिन्नघटत्वादिप्रकारिताकतत्तत्संबन्धावच्छिन्नघटत्वाद्या

तावच्छेदकं तु सामान्यतः संसर्गावच्छिन्नघटत्वादिविषयताशालिज्ञानत्वम् ।

श्रयताशालिमुख्य विशेष्यकप्रत्यक्षत्वेन इति । ज्ञानलक्षणायाः कारण-

घटत्वादिप्रकारकज्ञानादिव घटत्वादिविषयक (घटत्वादिविशेष्यक) ज्ञानादपि

घटत्वादिप्रकारकोपनीतभानोदयात् । केचित्तु ज्ञानलक्षणायाः सप्रकारक

घटत्वादिज्ञानत्वं कारणतावच्छेदकम् इत्याहुः । भाषापरिच्छेदकारादयस्

संसर्गावच्छिन्नतद्विषयताशालिज्ञानत्वेन कारणता योगजधर्माजन्यसामान्य-

लक्षणाप्रत्यासत्त्यजन्यतद्विषयकप्रत्यक्षत्वेन कार्यता इत्याहुः । अत्र
 

तद्विषयिता चालौकिकी ग्राह्या । तेन तल्लौकिकप्रत्यक्षे न व्यभिचारः
 

( म० म० २ पृ० २७१ ) ।
 

 
<
सामान्यलक्षणा>
( प्रत्यासत्तिः ) सामान्यलक्षण शब्दवद स्यार्थो नुसंधेयः ।

 
<
सामान्य विधिः>
( विधि: ) १ विशेषापवाद्यो विधिः । यथा का
न्याय तक्रम् इति विशेषापवाद्यः सर्वेभ्यो दधि दीयताम् इति सामान्य-
कौण्डि-

न्याय तक्रम् इति विशेषापवाद्यः सर्वेभ्यो दधि दीयताम् इति सामान्य-
विधिः । यथा वा मतविशेषे अग्नीषोमीयं पशुमालभत
 
इति विशेषाप
 

वाद्यो न हिंस्यात्सर्वा भूतानि इति हिंसासामान्यनिषेधविधिः सामान्य

विधिः । शिष्टं सामान्यशब्दे दृश्यम् । २ मीमांसकास्तु अनारम्य विधिः

यथा सामिधेन्यूचा साप्तदश्यस्यानारभ्याधीतत्वेन सामान्यविधिः । य

वा यस्य पर्णमयी जुहूर्भवति न स पापड श्लोक शृणोति (तैत्ति