This page has not been fully proofread.

न्यायकोशः ।
 
पृ० ८१ ) इति । अयं संनिकर्षश्च अतीतानागतानामिन्द्रियासंनिकृष्टानां
सामान्याश्रयाणां सर्वेषां व्यक्तीनामलौकिकं प्रत्यक्षं जनयति इति बोध्यम् ।
सामान्यलक्षणायाः प्रत्यासत्त्याः सामान्य प्रकारकज्ञानजनकत्व नियमात्
( दीधि० २) । मीमांसका मायावादिवेदान्तिनश्च सामान्यलक्षणं संनि-
कर्ष नाङ्गीचक्रुः ( म० प्र० ४ पृ० ३९)। तन्न सहन्ते नैयायिकाः।
यदि सामान्य लक्षणा प्रत्यासत्तिर्नास्ति तदा अनुकूलतर्कादिकं विना
धूमादौ व्यभिचारसंशयो न स्यात् । प्रसिद्धधूमे वह्निसंबन्धावगमात्
• कालान्तरीय देशान्तरीयधूमस्य मानाभावेनाज्ञानात् । सामान्येन तु सकल-
धूमोपस्थितौ धूमान्तरे विशेषादर्शनेन संशयो युज्यते (०२
पृ० १८-१९ ) । अतः सामान्यलक्षणावश्यकी इति । अत्र सामान्यं
च सखण्डाखण्डभेदेन द्वेधा । सखण्डे चाखण्डमेव परंपर
संबद्धं प्रत्यासत्तिः । येन संबन्धेन चेन्द्रियसंबद्धे सामान्यं ज्ञायते
• तेन संबन्धेनाधिकरणानां प्रत्यासत्तिः (दीधि ० २ पृ० ८१ ) । अत्र
इन्द्रियसंबद्ध इत्युक्त्या इन्द्रियसंबन्धस्य संयोगादेरिन्द्रिय प्रतियोगिकत्वात्
तद्धति स्येन्द्रिय संयुक्त विशेष्यकज्ञानप्रकारीभूतधूमत्वादेः प्रत्यासत्तित्वं ज
'न्यत्वघटितव्यापारवं च निर्वहति इति विज्ञेयम् ( दि० १ पृ० १२७ ) ।
अत्र बहिरिन्द्रियस्य संबन्धश्च लौकिको प्राह्यः । तेन एतादृशसंबन्ध-
घटितं सामान्यं बहिरिन्द्रिय प्रत्यक्षस्थले छुपयुज्यते (मु० १ पृ० १२९)
( सि० च० ) । ज्ञानस्य तदिन्द्रियजन्यत्वं च नियामकम् । एवं च
अणुत्वेन यत्किंचिदणूपस्थितावपि सकलाणुगोचरो मानसो बोधः इति
 
chique
 
WE PUD
 
वदन्ति ।
 
दीधितिकृता तु स्वमते सामान्यलक्षणायाः प्रत्यासत्तित्वं
 
• निराकृतम् इति विज्ञेयम् । [ख] ज्ञानप्रकारीभूतं सामान्यम् । यथा
• घटत्वपरमाणुस्वादि । अत्र अणुत्वेन यत्किंचिदणूपस्थितावपि सकलाणु-
• गोचरो मानसो बोधो भवति इति भावः । इदं मानसप्रत्यक्षस्थले
• ह्युपयुज्यते (मु० ) ( सि० च० ) । २ सामान्यविषयकं ज्ञानम् ।
• अयं घटः इति घटत्वविषयकलौकिक प्रत्यक्षेण सर्वे घटाः इति सकल-
यथा घटत्वज्ञानम् (मु० १ पृ० १३०) (सि० च०,
घटविषयकालौकिक प्रत्यक्षं जायते ( सि० च० ) इति । सामान्यविषयकं
 
हि
 
त्र
 
B
 
2
 
१०१५
 
220