न्यायकोशः /1068
This page has been fully proofread once and needs a second look.
न्यायकोशः ।
ब्राह्मणोयं विद्याचरणसंपन्नः इत्युक्ते ब्राह्मणत्वेन विद्याचरणसंपदं
साधयति इति कल्पयित्वा परो वदति कुतो ब्राह्मणत्वेन विद्याचरण
•
संपत् बाल्ये व्यभिचारात् ( गौ० वृ० १/२/१३ ) इति । तदु-
क्तम् सामान्यच्छलमेतत्स्यादतिसामान्ययोगतः । तात्पर्यवैपरीत्येन कल्पि-
तार्थस्य बाधनम् ॥ ( ता० २० १ श्लो० ९६ ) इति । अत्र सामान्य-
विशिष्ट: संभवदर्थश्च एतद्ब्राह्मणः । अतिसामान्यं तु ब्राह्मणत्वसामान्यम्
इति ज्ञेयम् ।
<सामान्यतो दृष्टम्
( अनुमानम् ) [ क ] व्रज्यापूर्वकम्
अन्यत्र दर्शनम् इति । यथा चादित्यस्य । तस्मादस्त्यप्रत्यक्षाप्यादित्यस्य
ज्येति । यत्राप्रत्यक्ष लिङ्गलिङ्गिनोः संबन्धे केनचिदर्थेन लिङ्गस्य
सामान्यादप्रत्यक्षो लिङ्गी गम्यते । यथा इच्छादिभिरात्मा । इच्छादयो
गुणाः । गुणाश्च द्रव्यसंस्थानाः । तद्यदेषां स्थानं स आत्मेति (वात्स्या
१।१।५ ) । [ ख ] कार्यकारणभिन्नलिङ्गकमनुमानम् । यथा पृथिवी
त्वेन द्रव्यत्वानुमानम् । [ग] अन्वयव्यतिरेक्यनुमानम् / यथा वह्निमान्
धूमात् इत्यादि ( गौ० वृ० ११११५ ) ।
<सामान्यप्रत्यासत्तिः
सामान्यलक्षणशब्दवदस्यार्थोनुसंधेयः ।
-
अन्यत्र दृष्टस्य
<सामान्यलक्षण:
(अलौकिकः संनिकर्षः ) अलौकिक प्रत्यक्षविशेष कार
संनिकर्षविशेषः । स च १ क ] इन्द्रियसंबद्ध विशेष्यकज्ञान प्रकारी-
भूतं सामान्यम् । यथा घटत्वधूमत्वादि । अत्रार्थे सामान्यं लक्षणं
स्वरूपं यस्य इति व्युत्पत्त्या सामान्यमेव प्रत्यासत्तिः ( दीघि० २
पृ० ८० ) (मु० १ पृ० १२७) । अत्रेदं विज्ञेयम् । सामान्य
ज्ञायमानमेव स्वाश्रयाणां संनिकर्षः । ज्ञायमानघटत्वसंनिकर्षण घटा
इत्याकारकं सकलघटानां प्रत्यक्षं जन्यते (त० कौ० ) इति ।
यत्रेन्द्रियसंयुक्तो धूमादिः तद्विशेष्यकं धूमः इति ज्ञानं जातम् /
ज्ञाने घूमत्वं प्रकारः । तत्र धूमत्वेन संनिकर्षण धूमाः इत्येवंरूपं सक
घूमविषयकं ज्ञानं जायते (मु० १ पृ० १२७) (दीषि
तथ