2023-12-26 06:57:18 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
१०१३
 
विशेषजनकतावच्छेदकजात्यवच्छिन्नकठिनावयवद्वयविभागे तेजोवेगाति-

शयेत्यन्ताग्निसंयोगनाश्यतावच्छेदकवैजात्यावच्छिन्नघृतादिवृत्तिद्रवत्वे चा-

व्याप्तिवारणाय अवृत्ति इत्यन्तं जातिविशेषणम् । कर्मादावतिव्याप्ति-

वारणाय विशेष्यदलं दत्तम् । पृथिवीत्वा दिव्याप्यतावच्छेदकतत्तत्संख्या-

स्वादिशून्यत्वस्य तत्तत्संख्यायामभावाद व्याप्तिः । तद्वारणाय जातिपदं

दत्तम् ( दि० गु० पृ० १९३ ) इति । [ ख ] यद्रूपावच्छिन्नसमाना-

धिकरणं यत्किंचिद्रव्यविभाजकोपाधिद्वयं भवति तद्भिन्ना स्थितिस्थापक-

वृत्तिभिन्ना च या जातिस्तादृशजातिमद्भिन्नगुणत्वम् (नील० गु०

पृ० ३९) । तथा हि । यद्रूपम् संख्यात्वसंयोगत्व विभागत्वादि । तद-

वच्छिन्नः संख्यासंयोगविभागादिः । तत्समानाधिकरणं यत्किंचिद्

द्रव्यविभाजकोपाधिद्वयम् पृथिवीत्वजलत्वादि भवति तद्भिन्ना ( संख्यात्व-

संयोगत्वादिभिन्ना ) या जाति: रूपत्वादिः ज्ञानस्वादिश्च तद्वद्भिन्नगुणत्वं

संख्यादौ वर्तते इति लक्षणसमन्वयो बोध्यः । सामान्यगुणा चैक

संख्या परिमाणम् पृथक्त्वम् संयोगः विभागः परत्वम् अपरत्वम् गुरुत्वम्

नैमित्तिकद्रवत्वम् वेगः स्थितिस्थापकश्चेति (मु० गु० पृ० १९२-१९३) ।

अत्र केषांचिन्मते स्थितिस्थापकस्य पृथिव्यादिद्रव्यचतुष्टयवृत्तित्वाङ्गीकारात्

तन्मताभिप्रायेण स्थितिस्थापकस्य सामान्यगुणेष्वन्तर्भावः कृतः । तस्य

पृथिवीमात्रवृत्तित्वाङ्गीकारे तु विशेषगुणत्वमेव इति विज्ञेयम् ।

 
<
सामान्यच्छलम्>
(छलम्) [क] संभवतोर्थस्यातिसामान्ययोगादसंभूता-

र्थकल्पना सामान्यच्छलम् (गौ० सू० १२ १२ १३) । अत्र व्युत्पत्तिः

सामान्य निमित्तं छलं सामान्यच्छलम् इति । यद्विवक्षितमर्थमाप्नोति चात्येति

च तदतिसामान्यम् । यथा ब्राह्मणत्वं विद्याचरणसंपदं कचिदानोति

कचिदत्येति । अहो खल्वसौ ब्राह्मणो विद्याचरणसंपन्नः इत्युक्ते कश्चिदाह ।

संभवति हि ब्राह्मणे विद्याचरणसंपत् इति। अस्य वचनस्य विधातोर्थवि

कल्पोपपत्त्या असंभूतार्थकल्पनया क्रियते यदि ब्राह्मणे विद्याचरणसंपत्सं-

भवति व्रात्येपि संभवेत् व्रात्योपि ब्राह्मणः सोप्यस्तु विद्याचरणसंपन्नः

(वात्स्या० १।२।१३) इति । [ख] सामान्यविशिष्टसंभवदर्थाभिप्रायेणो-
*
 

 
-
 
ब्द