2023-12-26 06:55:53 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

१०१२
 
न्यायकोशः ।
 
पुरुषादिनिष्ठं दण्डित्वरूपम् इति दण्डित्वादि दण्डत्वान्नातिरिक्तम् ( त०

कौ० पृ० २० ) इति । इदं सामान्यं क्वचिन्नित्यं धूमत्वादि कचिच्चा-

नित्यं घटादि ( मु० १ पृ० १२९ ) इति । ३ साधारणो व्यापको

वा धर्मः । यथा द्रव्यसामान्यलक्षणम् हेत्वाभाससामान्य निरुक्तिः इत्यादौ

सामान्यशब्दार्थः । ४ सर्वशब्दवदस्यार्थोनुसंधेयः । यथा प्रतियोगितासा-

मान्ये यत्संबन्धावच्छिन्नत्व यद्धर्मावच्छिन्नत्व एतदुभयाभावः ( दीधि ० )

(मु० २ व्यातिनि० ) इत्यादौ सामान्यशब्दस्यार्थः । तथा च प्रति-

योगितासामान्ये इत्यस्य सर्वासु प्रतियोगितासु इत्यर्थः । ५ साहित्य-

शास्त्रज्ञास्तु सादृश्यप्रयोजको धर्मः । यथा मुखं पद्ममिव सुन्दरम् इत्याद

सौन्दर्यादिः साधारणधर्मः सामान्यम् इत्याहुः । ६ मीमांसकाच अधिक

विषयकम् । यथा ब्राह्मणाय दधि दीयताम् कौण्डिन्याय तक्रम् इ

दधिदानमधिकब्राह्मणविषयकत्वेन सामान्यम् इत्याहुः ।

विज्ञेयम् । सामान्यशास्त्रं च विशेषशास्त्रेण बाध्यते । यथा मा हिंस्या-

त्सर्वा भूतानि इति हिंसानिषेधः सर्वविषयः । वायव्य श्वेतमालभेत इ

हिंसाशास्त्रं विशेषः । तेन सामान्यशास्त्रं वैधेतरविषय एव प्रसरति इति ।

अत्र बाध्यबाधकभावस्तु समान एव विषये न तु भिन्ने विषये प्रवर्तते

इति नियमो द्रष्टव्यः । ७ आलंकारिकास्तु अलंकारविशेष इत्याहुः ।

तदुक्तम् सामान्यं प्रकृतस्यान्यतादात्म्यं सदृशैर्गुणैः ( सा० द० परि० १०
 
इत्याद
 
अत्रेदमधिकं
ide
 

श्लो० ९० ) इति ।
 

 
<
सामान्यगुणत्वम् ->
[क ] रूपस्पर्शान्यत्वे सति द्रव्यविभाजकोपाधि
 
wpo
 

व्याप्यतावच्छेदकसंयोग विभागवेगद्रवत्वावृत्तिजातिशून्यगुणत्वम् (दि
 

गु० पृ० १९३ ) ( ल० व० ) । यथा संख्यादीनां गुणानां साम

न्यगुणत्वम् । द्रव्यविभाजकतावच्छेदकं पृथिवीत्वादि । तया

तावच्छेदकं च गन्धत्वादि । तच्छून्यत्वस्य संख्यादौ सत्त्वालक्ष

समन्वयः । अत्रत्यपदप्रयोजनं कथ्यते । जलीयशुक्लरूपे वायोरनुष्णाश

स्पर्शे च पृथिव्यादिशुक्लरूपस्पर्शव्यावृत्तजातिविशेषे मानाभावात् :
 

रूपानुष्णाशीत स्पर्शयोरतिव्याप्तिवारणाय सत्यन्तं दलं दत्तम् । रा