This page has not been fully proofread.

१०१२
 
न्यायकोशः ।
 
पुरुषादिनिष्ठं दण्डित्वरूपम् इति दण्डित्वादि दण्डत्वान्नातिरिक्तम् ( त०
कौ० पृ० २० ) इति । इदं सामान्यं क्वचिन्नित्यं धूमत्वादि कचिच्चा-
नित्यं घटादि ( मु० १ पृ० १२९ ) इति । ३ साधारणो व्यापको
वा धर्मः । यथा द्रव्यसामान्यलक्षणम् हेत्वाभाससामान्य निरुक्तिः इत्यादौ
सामान्यशब्दार्थः । ४ सर्वशब्दवदस्यार्थोनुसंधेयः । यथा प्रतियोगितासा-
मान्ये यत्संबन्धावच्छिन्नत्व यद्धर्मावच्छिन्नत्व एतदुभयाभावः ( दीधि ० )
(मु० २ व्यातिनि० ) इत्यादौ सामान्यशब्दस्यार्थः । तथा च प्रति-
योगितासामान्ये इत्यस्य सर्वासु प्रतियोगितासु इत्यर्थः । ५ साहित्य-
शास्त्रज्ञास्तु सादृश्यप्रयोजको धर्मः । यथा मुखं पद्ममिव सुन्दरम् इत्याद
सौन्दर्यादिः साधारणधर्मः सामान्यम् इत्याहुः । ६ मीमांसकाच अधिक
विषयकम् । यथा ब्राह्मणाय दधि दीयताम् कौण्डिन्याय तक्रम् इ
दधिदानमधिकब्राह्मणविषयकत्वेन सामान्यम् इत्याहुः ।
विज्ञेयम् । सामान्यशास्त्रं च विशेषशास्त्रेण बाध्यते । यथा मा हिंस्या-
•त्सर्वा भूतानि इति हिंसानिषेधः सर्वविषयः । वायव्य श्वेतमालभेत इ
हिंसाशास्त्रं विशेषः । तेन सामान्यशास्त्रं वैधेतरविषय एव प्रसरति इति ।
अत्र बाध्यबाधकभावस्तु समान एव विषये न तु भिन्ने विषये प्रवर्तते
• इति नियमो द्रष्टव्यः । ७ आलंकारिकास्तु अलंकारविशेष इत्याहुः ।
• तदुक्तम् सामान्यं प्रकृतस्यान्यतादात्म्यं सदृशैर्गुणैः ( सा० द० परि० १०
 
इत्याद
 
अत्रेदमधिकं
ide
 
श्लो० ९० ) इति ।
 
सामान्यगुणत्वम् -[क ] रूपस्पर्शान्यत्वे सति द्रव्यविभाजकोपाधि
 
wpo
 
व्याप्यतावच्छेदकसंयोग विभागवेगद्रवत्वावृत्तिजातिशून्यगुणत्वम् (दि
 
गु० पृ० १९३ ) ( ल० व० ) । यथा संख्यादीनां गुणानां साम
न्यगुणत्वम् । द्रव्यविभाजकतावच्छेदकं पृथिवीत्वादि । तया
तावच्छेदकं च गन्धत्वादि । तच्छून्यत्वस्य संख्यादौ सत्त्वालक्ष
समन्वयः । अत्रत्यपदप्रयोजनं कथ्यते । जलीयशुक्लरूपे वायोरनुष्णाश
स्पर्शे च पृथिव्यादिशुक्लरूपस्पर्शव्यावृत्तजातिविशेषे मानाभावात् :
 
रूपानुष्णाशीत स्पर्शयोरतिव्याप्तिवारणाय सत्यन्तं दलं दत्तम् । रा