2023-12-26 06:55:08 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

मू
 

 
न्यायकोशः ।
 
१०११
 
सामान्यानि स्वाश्रय विशेषकत्वाद्भक्त्या विशेषाख्यानि इति लक्षणभेदादेषां

द्रव्यगुणकर्मभ्यः पदार्थान्तरत्वं च सिद्धम् ( प्रशस्त • सामान्यनि ●

पृ० ६३-६४ ) । तत्र परं सत्ता । महाविषयत्वात् । अपरं द्रव्यत्व-

गुणत्व कर्मत्वादि । अल्पविषयत्वात् । तच्च व्यावृत्तेरपि हेतुत्वात् सामान्यं

सत् विशेषाख्यामपि लभते (मु० १) (त० सं० ) इति बोध्यम् ।

परत्वं चात्र व्यापकत्वम् । तच्च अधिकदेशवृत्तित्वम् । तच्च स्वसमाना-

धिकरणात्यन्ताभावाप्रतियोगित्वम् ( ल० व० पृ० ३८) । अथ वा

स्वरूपतः सर्वदेशसंबद्धत्वम् (वै० उ० १।२।३ ) । अत्रेदं बोध्यम् ।

सत्ताया द्रव्यादित्रितयवृत्तित्वेनेतरसामान्यापेक्षयाधिक
देशवृत्तित्वात् परत्वं

ज्ञेयम् ( त० कौ० ) । सा चानुवृत्तेरेव हेतुत्वात्सामान्यमेव ( प्रशस्त ०

पृ० २) । अत्रेदमधिकं विज्ञेयम् सत्तागुणत्वे च सर्वेन्द्रियग्राह्ये

समवायोभावश्च ( न्या० वा० ११ १२ १३ १० ७६ ) इति । नव्याः

पुनरिमां सत्तां नाङ्गीकुर्वन्ति । अपरत्वं चात्र न्यूनदेशवृत्तित्वम् ।

तच्च स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वम् (ल० व० ) । द्रव्यत्वा-

दीनां सत्तापेक्षयाल्पदेशवृत्तित्वादपरत्वं बोध्यम् । अत्र सूत्रम् द्रव्यत्वं

गुणत्वं कर्मत्वं च सामान्यानि विशेषाश्च (वै० ११२/५ ) इति । तथा

च द्रव्यत्वादीनां सत्तापेक्षयाल्पदेशवृत्तित्वादपरत्वम् पृथिवीत्वाद्यपेक्षया-

धिक देशवृत्तित्वात्परत्वम् । एवं च परत्वमपरत्वं च तेषां विज्ञेयम्

(मु० १११ ) । २ यत्किंचिदधिकरणवृत्तिपदार्थमात्रम् । यथा सामान्य-

लक्षणः संनिकर्षः इत्यादौ सामान्यशब्दार्थः । अत्रार्थे व्युत्पत्तिः समानानां

भाव: सामान्यम् (मु० १ पृ० १२९) इति । इदं सामान्यं द्विविधम्

अखण्डम् सखण्डं चेति । तत्र अखण्डम् साक्षात्संबद्ध सामान्यम् जाति:

इत्युच्यते । यथा सत्ताद्रव्यत्वकर्मत्वादि । सखण्डं तु परंपरया संबद्धं

सामान्यम् उपाधिः इत्युच्यते । यथा प्रमेयत्वज्ञेयत्वादि दण्डित्वकुण्डलि

त्वादि च । अयं च उपाधिः पदार्थमात्रवृत्तिः ( प्र० प्र० ) ( दीधि० २

पृ० ८१ ) । इदमत्राकूतम् / प्रमात्वमेव हि परंपरासंबन्धेन ( स्वाश्रय-

विषयत्वसंबन्धेन) घटादिनिष्ठं प्रमेयत्वरूपम् इति प्रमात्वान्नातिरिक्तं प्रमेय -

त्वम् । एवम् दण्डत्वमेव परंपरासंबन्धेन ( खाश्रयदण्डसंयोगसंबन्धेन )
 
म.
 
येन