This page has not been fully proofread.

१०१०
 
न्यायकोशः ।
 
[च ] सामान्यं तु प्रध्वंसप्रतियोगित्वरहितमनेक समवेतम् (सर्व० सं०
पृ० २१६ औं० ) । सामान्यं द्विविधम् परम् अपरं चेति । अत्र
सूत्रम् सामान्यं विशेष इति बुद्ध्यपेक्षम् (वै० १/२/३ ) इति ।
तदर्थश्च सामान्यं परसामान्यम् विशेषोपरसामान्यम् इति द्वयं बुद्ध्यपेक्षम् ।
बुद्धिरपेक्षा लक्षणं यस्य तत् । तथा च सामान्यं द्विविधम् परम् अपरं
च । तत्र परसामान्यं सत्ता । द्रव्यत्वादिकमपरसामान्यम् । तत्र सामान्य-
विशेषयोः परापरयोर्लक्षणं बुद्धिरेव । अनुवृत्तत्वबुद्धिः सामान्यस्य
व्यावृत्तत्वबुद्धिर्विशेषस्य लक्षणम् । अनुवृत्तत्वमधिकदेशवृत्तित्वम् ।
व्यावृत्तत्व मल्पदेशवृत्तित्वम् (वै० वि० १/२/३ पृ० ५१-५२) ।
तथा च भाष्यम् द्विविधं सामान्यं परम् अपरं च । स्वविषयसर्वगतम्
अभेदात्मकम् अनेकवृत्ति एकद्विबहुष्वात्मस्वरूपानुवृत्तिप्रत्ययकारणम् ।
स्वरूपाभेदेनाधारेषु प्रबन्धेन वर्तमानम् अनुवृत्तिबुद्धि कारणमित्यर्थः ।
कथम् । प्रतिपिण्डं सामान्यापेक्षप्रबन्धज्ञानोत्पत्तावभ्यासप्रत्ययजनिता
 
तत्र सत्ता परं सामान्यमनुवृत्तिप्रत्ययकारणमेव । यथा परस्पर विशिष्टेषु
 
संस्कारादतीतज्ञानप्रबन्धप्रत्ययावेक्षणाद्यत्समनुगतमस्ति तत्सामान्यम् इति ।
 
चर्मवस्त्रकम्बलादिष्वेकस्मान्नीलीद्रव्याभिसंबन्धात्
 
इति
नीलम्
नीलम्
 
इति प्रत्ययानुवृत्तिः । सा चार्थान्तराद्भवितुमर्हतीति यत्तदर्थान्तरं सा
प्रत्ययानुवृत्तिः तथा परस्परविशिष्टेषु द्रव्यगुणकर्मस्व विशिष्टा सत् सद
सत्ता इति सिद्धा सत्ता । सत्तासंबन्धात् सत् इति प्रत्ययानुवृत्तिः ।
तस्मात्सत्ता सामान्यमेव । अपरं द्रव्यत्वगुणत्व कर्मत्वादि । तच्चानुवृत्ति
•विशिष्टेषु पृथिव्यादिष्वनुवृत्तिप्रत्ययहेतुत्वात् सामान्यम् गुणकर्मम
व्यावृत्तिप्रत्ययहेतुत्वात् सामान्यं विशेषश्च भवति । तत्र द्रव्यत्वं परस्पर
व्यावृत्तिप्रत्ययहेतुत्वाद्विशेषः । तथा गुणत्वं परस्पर विशिष्टेषु रूपादिष्व
वृत्तिप्रत्यय हेतुत्वात् सामान्यम् द्रव्यकर्मभ्यो व्यावृत्तिप्रत्ययहेतत्वाद्विशेषः
तथा कर्मव्वं परस्पर विशिष्टेषूत्क्षेपणादिष्वनुवृत्तिप्रत्ययहेतुत्वात् सामान्य
द्रव्यगुणेभ्यो व्यावृत्तिहेतुत्वाद्विशेषः । एवम् पृथिवीत्वरूपत्वोत्क्षेपण
• गोत्वपटत्वादीनां प्राण्यप्राणिगतानामनुवृत्तिव्यावृत्तिप्रत्ययहेतुत्वात् स
न्यविशेषभावः सिद्धः । तानि द्रव्यत्वादीनि प्रभूतविषयत्वात् प्राधा