न्यायकोशः /1063
This page has been fully proofread once and needs a second look.
A
4
1.
न्यायकोशः ।
१००९
पर्वतो वह्निमान् इत्याकारकानुमितेः वहिपर्वतत्वयोः सामानाधिकरण्य-
मात्र विवक्षायाम् तयोरवच्छेद्यावच्छेदकभावाविवक्षायाम् सामानाधिकरण्य-
मात्रावगाहित्वम् । प्राञ्चस्तु पक्षतावच्छेदकाकान्तयत्किंचिद्व्यक्तिविषयकत्वं
सामानाधिकरण्यमात्रावगाहित्वम् इत्याहुः ( ग० २ पक्ष० पृ० २० ) ।
[ख] तद्वदनुयोगिकप्रतियोगित्वम् । प्रतियोगितासंबन्धेन तद्वदनु -
योगिकवत्वम् इत्यर्थः ( ग० २ व्याप्ति० सिद्धा० ) । यथा द्रव्यत्व-
पृथिवीत्वयोः सामानाधिकरण्यम् । तथा हि द्रव्यत्ववान् घटः । तदनु-
योगिकः घटे पृथिवीत्वस्य समवायाख्यः संबन्धः । तत्प्रतियोगित्वं
पृथिवीत्वेस्ति इति । [ ग ] स्वावच्छेदकीभूतो यः कालस्तदवच्छिन्ना
या स्वविशिष्ट
साधयिषा नासीत् सिद्धिश्वासीत्तदा सिद्धिसिषाधयिषाविरहयोः
सामानाधिकरण्यम् । इदं च एकक्षणावच्छिन्नसामानाधिकरण्यम् इत्यु-
च्यते। २ [क] अभेदान्वयबोधकत्वम् । यथा नीलो घटः इत्यादौ
नीलपदघटपदयोः सामानाधिकरण्यम् । [ख] शाब्दिकास्तु पदयोरेका
र्थाभिधायित्वम् [ग] समानविभक्तिकत्वं वा । यथा नीलो घटः इत्यादौ
नीलपदघटपदयोः सामानाधिकरण्यम् इत्याहुः (बै० सा० द० ) ।
[ष] प्रकारद्वयविशिष्टैकवस्तुबोधकत्वम् । प्रकारद्वयविशिष्टैकवस्तु-
परत्वात्सामानाधिकरण्यस्य ( सर्व० सं० पृ० १०१ रामानु० ) ।
०
सामान्यम् -
<सामान्यम्>
१ ( पदार्थ:) [क] या समानां बुद्धि प्रसूते भिन्नेष्व-
•
धिकरणेषु यया बहूनतरेतरतो न व्यावर्तन्ते योर्थोनेकत्र प्रत्ययानुवृत्ति-
•
निमित्तम् तत्सामान्यम् (वात्स्या० २/२/६८ ) ( प्रशस्त ० १ पृ० २ )
(त० भा० ) । अत्र व्युत्पत्तिः समानानां भावोनागन्तुको नित्यो धर्मः
•
सामान्यम् ( प० मा० ) इति । तच्च द्रव्यगुणकर्मवृत्ति नित्यं चेति
बोध्यम् । [ख] नित्यत्वे सति स्वाश्रयान्योन्याभावसमानाधिकरणम् ।
[ग] नित्यत्वे सत्यनेकसमवेतम् । [ घ ] सामान्यं नित्यमेकं स्याद-
नेकसमवायि च ( ता० २० लो० ५३) इति । [ङ ] अनुगतो धर्मः ।
१२७ न्या० को०