2023-12-26 06:52:49 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
१००७
 
सामग्र्या पर्वतादौ वह्नि प्रत्यक्षमेवोत्पद्यते न त्वनुमितिः इत्यनुभवसिद्धः

सिद्धान्तः । भिन्ने विषये तु प्रत्यक्षानुमितिसामग्र्योर्मध्येनु मितिसामग्री

प्रबला यथा भूतलादौ घटादिप्रत्यक्षजनिकायाः घटचक्षुःसंयोगादि-

रूपायाः पर्वतादौ तु वह्याद्यनुमितिजनिकाया व्याप्तिज्ञानादिघटितायाश्च

सामग्र्या युगपत्सत्वेनुमितिसामग्र्याः प्राबल्येन तया पर्वतादौ वह्याद्यनु -

मितिरेवोत्पद्यते न तु घटवद्भुतलादिप्रत्यक्षम् इति । एवमग्रेप्यूह्यम् ।

 
<
सामयिकः>
समयः कालः नियमो वा । तत्र भवः उचितो वा (ठञ् )

सामयिकः । तथा च निजधर्माविरोधेन यस्तु सामयिको भवेत् इति

स्मृत्या नियमबद्धः इत्यर्थः ।
 
——
 

 
<
सामयिकाभावः>
अत्यन्ताभावः (त० दी० ४ ) । तदर्थश्च सामयिकः

समयविशेषे प्रतियोगिविरहसमये प्रतीयमानः अभावोत्यन्ताभावः साम-

यिकाभावः ( नील० पृ० ४१ ) इति । केचित्तु उत्पाद विनाशशाली

अत्यन्ताभावादतिरिक्तोयमभावः इत्याहुः ( वै० वि० ९/११५) ।

अत्रेदमाकूतम् । यत्र भूतले पूर्व घटादिकं स्थितमथापसारितं तत्रायं

चतुर्थः संसर्गाभावः प्रतीयते नात्यन्ताभावः (वै० वि० ९/११५ )

इति । अयमभिप्रायः। सामयिकाभावस्यात्यन्ताभावस्वरूपत्वाङ्गीकारेयन्ता-

भावस्य नित्यत्वेन भूतलादौ घटसस्त्रेपि तदपसारणदशायामिव तद -

सन्ताभावबुद्ध्यापत्तिः । तथाविधात्यन्ताभावस्या प्रतीयमानत्वात्तु तद-

तिरिक्तोयमभावोङ्गीकार्यः । भूतलादौ घटसत्त्वदशायां न तदभाव-

वत्ताबुद्धिः । अन्यदा तु जायते ।
अतः सामयिकाभावोतिरिक्त
एवाङ्गीकर्तव्यः (नील० पृ० ४१ ) इति । तन्न सहन्ते नैयायिकाः ।

तथा हि । यत्र तु भूतलादौ घटादिकमपसारितं पुनरानीतं च तत्र घटा-

नयनानन्तरमपि अत्यन्ताभावस्य नित्यत्वेपि च घटकालस्य संबन्धा-

घटकत्वात् संबन्धाभावात् घटकाले न घटात्यन्ताभावबुद्धिः ( दि० १

पृ० ४३ ) । तथा च कालविशेष विशिष्टस्वरूपस्य संसर्गत्वोपगमादेव

घटवति घटो नास्ति इति प्रतीत्यभावोपपत्तौ चतुर्थसंसर्गाभावे माना-

भावः ( दि० १ पृ० ४३ ) इति । घटाघनधिकरणकालावच्छिन्न-
Jum
 
अतः सामयिकाभावोतिरिक्त