This page has not been fully proofread.

न्यायकोशः ।
 
१००७
 
सामग्र्या पर्वतादौ वह्नि प्रत्यक्षमेवोत्पद्यते न त्वनुमितिः इत्यनुभवसिद्धः
सिद्धान्तः । भिन्ने विषये तु प्रत्यक्षानुमितिसामग्र्योर्मध्येनु मितिसामग्री
प्रबला यथा भूतलादौ घटादिप्रत्यक्षजनिकायाः घटचक्षुःसंयोगादि-
रूपायाः पर्वतादौ तु वह्याद्यनुमितिजनिकाया व्याप्तिज्ञानादिघटितायाश्च
सामग्र्या युगपत्सत्वेनुमितिसामग्र्याः प्राबल्येन तया पर्वतादौ वह्याद्यनु -
मितिरेवोत्पद्यते न तु घटवद्भुतलादिप्रत्यक्षम् इति । एवमग्रेप्यूह्यम् ।
सामयिकः – समयः कालः नियमो वा । तत्र भवः उचितो वा (ठञ् )
सामयिकः । तथा च निजधर्माविरोधेन यस्तु सामयिको भवेत् इति
स्मृत्या नियमबद्धः इत्यर्थः ।
 
——
 
सामयिकाभावः – अत्यन्ताभावः (त० दी० ४ ) । तदर्थश्च सामयिकः
समयविशेषे प्रतियोगिविरहसमये प्रतीयमानः अभावोत्यन्ताभावः साम-
यिकाभावः ( नील० पृ० ४१ ) इति । केचित्तु उत्पाद विनाशशाली
अत्यन्ताभावादतिरिक्तोयमभावः इत्याहुः ( वै० वि० ९/११५) ।
अत्रेदमाकूतम् । यत्र भूतले पूर्व घटादिकं स्थितमथापसारितं तत्रायं
चतुर्थः संसर्गाभावः प्रतीयते नात्यन्ताभावः (वै० वि० ९/११५ )
इति । अयमभिप्रायः। सामयिकाभावस्यात्यन्ताभावस्वरूपत्वाङ्गीकारेयन्ता-
भावस्य नित्यत्वेन भूतलादौ घटसस्त्रेपि तदपसारणदशायामिव तद -
सन्ताभावबुद्ध्यापत्तिः । तथाविधात्यन्ताभावस्या प्रतीयमानत्वात्तु तद-
•तिरिक्तोयमभावोङ्गीकार्यः । भूतलादौ घटसत्त्वदशायां न तदभाव-
वत्ताबुद्धिः । अन्यदा तु जायते ।
● एवाङ्गीकर्तव्यः (नील० पृ० ४१ ) इति । तन्न सहन्ते नैयायिकाः ।
तथा हि । यत्र तु भूतलादौ घटादिकमपसारितं पुनरानीतं च तत्र घटा-
नयनानन्तरमपि अत्यन्ताभावस्य नित्यत्वेपि च घटकालस्य संबन्धा-
घटकत्वात् संबन्धाभावात् घटकाले न घटात्यन्ताभावबुद्धिः ( दि० १
पृ० ४३ ) । तथा च कालविशेष विशिष्टस्वरूपस्य संसर्गत्वोपगमादेव
घटवति घटो नास्ति इति प्रतीत्यभावोपपत्तौ चतुर्थसंसर्गाभावे माना-
भावः ( दि० १ पृ० ४३ ) इति । घटाघनधिकरणकालावच्छिन्न-
Jum
 
अतः सामयिकाभावोतिरिक्त