This page has not been fully proofread.

५२
 
न्यायकोशः ।
 
अन्वाहितम् – यदेकस्य हस्ते निहितं द्रव्यं तेनापि अनु पश्चादन्यहस्ते
स्वामिने देहीति निहितं तदन्वाहितम् ( मिताक्षरा अ० २ श्लो० ६७ ) ।
अन्विताभिधानवादः – शक्तिज्ञानाविषयस्य शाब्दबोधाविषयत्वनियम इति
वादः ( कृष्ण० शक्ति० ) । भट्टते च इतरान्वितघटो घटपदशक्य
इत्येतादृशमेव शक्तिज्ञानं शाब्दबोधप्रयोजकम् । एवं च शाब्दबोधे पदा-
र्थसंसर्गस्यापि पदशक्यत्वमङ्गीकुर्वन्ति ( ग० शक्ति० ५ ) । एवमेत-
न्मते वाक्येपि शक्तिं स्वीकुर्वन्ति इति विज्ञेयम् । इदं च प्राभाकरमतम्
न तु भट्टमतमिति बहवो ग्रन्थकारा वदन्ति ।
 
अन्वीक्षा - प्रत्यक्षागमाभ्यामीक्षितस्यान्वीक्षणम् । यथा आन्वीक्षिकी न्याय-
विद्येत्यादावन्वीक्षा ( वात्स्या० ११ १२ १ ) । अत्र व्युत्पत्तिः-श्रवणात्
अनु (पश्चात् ) ईक्षा अन्वीक्षा उन्नयनम् ( गौ० वृ० १११।१ ) ।
अपकर्षः–१ विद्यमानधर्मापचयः । तथा च साध्यसाधनान्यतरस्याभावप्र-
सञ्जनम् । यथा अपकर्षसमो जातिरित्यादौ ( गौ० वृ० ५/११४ ) । २
गुणनिष्ठजातिविशेषः । यथा महत्त्वत्वं चापकर्षानाश्रय परिमाणत्वम् इत्यत्रा-
पकर्षः ( राम० १।५८ ) । ३ उचितधर्मापेक्षातो हीनता । यथा -
• उत्कर्ष चापकर्षे च मनुष्येष्विह जन्मतः इत्यादौ ( मनु० १०/४२ ) ।
४ स्वकर्तव्यकाळापूर्वकाले करणम् । यथा-मरणोत्तर मृताहे मासि
मासि कर्तव्यानां मृताहनिमित्तकमासिकादीनां द्वादशाहेषु एकाहेषु च
• कर्तव्यत्वोक्तेः सर्वापकर्षः । तदुक्तम्- मुख्यं श्राद्धं मासि मासि अपर्या-
वृतुं प्रति । द्वादशाहेन वा कुर्यादेकाहे द्वादशेथ वा इति
( स्मृतिः ) । ५ परसूत्रपदानामन्वयार्थ पूर्वसूत्र आकर्षणमिति शाब्दिका
 
वदन्ति ( वाच० ) ।
 
अपकर्षसमः - ( जाति: ) [ क ] साध्ये धर्माभावं दृष्टान्तात्प्रसञ्जयतो-
पकर्षसमः । लोष्टः खलु क्रियावान विभुर्दृष्टः काममात्मापि क्रियावानवि-
भुरस्तु । विपर्यये वा विशेषो वक्तव्य इति ( वात्स्या० ५/१/४ ) ।
[ख पक्षदृष्टान्तान्यतरस्मिन्व्याप्तिमपुरस्कृत्य सहचरितधर्माभावेन हेतु-