2023-12-26 06:49:35 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
१००३
 
साध्यत्वम् -
<साध्यत्वम्>
साध्यता ।
 
W
 

 
<
साध्यप्रसिद्धिः>
[ क ] सिद्धिः । [ ख ] साध्यस्य ज्ञानम् ।
साध्यम् -

 
<साध्यम्>
१ साधनीयम् । तच्च साध्यत्ववत् । यथा पर्वतो वहिमान् घूमात्

इत्यादौ वह्निः साध्यम् (मु० २ ) । साध्यं च द्विविधम् धर्मिविशिष्ट

वा धर्मः । यथा शब्दस्यानित्यत्वम् इति । धर्मविशिष्टो वा धर्मी । यथा

अनित्यः शब्दः इति ( वात्स्या० ११११३६ ) । २ [क] व्यवहार-

शास्त्रज्ञास्तु अष्टादश विवादेषु प्रमाणादिनोद्भाव्यः पदार्थः । साक्षिलेख्या-

नुमानरूपक्रियादिना साधनीयं यत् तत् ( रकम इति प्र० ) । यथा

ऋणादिषु विवादेषु स्थिरप्रायेषु निश्चितम् । ऊने वाभ्यधिके वार्थे प्रोक्ते

साध्यं न सिध्यति ॥ ( काव्या० वीरमित्रो० पृ० १२४) इत्यादौ

साध्यशब्दस्यार्थः । [ ख ] साध्यार्हः प्रतिज्ञेयः पक्षः । तदुक्तं बृहस्पतिना

प्रतिज्ञादोषनिर्मुक्तं साध्यं सत्कारणान्वितम् । निश्चितं लोकसिद्धं च पक्षं

पक्षविदो विदुः ॥ इति । अत्र साध्यं साध्याम् । प्रत्यर्थिधर्मविशिष्टं

धर्मिवचनम् इति यावत् ( वीरमित्रो० लेख्य० पृ० ६९ ) । ३ पक्षः

(गौ०
(० वृ० ११ १२ १ ३८ ) । यथा उदाहरणापेक्षस्तथेत्युपसंहारो न तथेति

वा साध्यस्योपनयः ( गौ० ११ ११३८ ) इत्यादौ साध्यशब्दस्यार्थः पक्षः ।

४ शाब्दिकास्तु लिङ्गसंख्यानन्वयिनी क्रिया । यथा पचति करोति

इत्यादिक्रिया इत्याहुः । अत्रोक्तं हरिणा साध्यरूपा क्रिया तत्र धातुरूप

निबन्धना ( वाक्यप० ) इति । शिष्टं तु क्रियाशब्दव्याख्याने दृश्यम् । अत्र

साध्यत्वं च क्रियान्तराकाङ्क्षानुत्थापकतावच्छेदकरूपवत्त्वम् इति बोध्यम् ।

५ पौराणिकास्तु द्वादशसंख्यको गणदेवताविशेष इत्याहुः । तदुक्तम्

मनोमन्ता तथा प्राणो भरोपानश्च वीर्यवान् । निर्भयो नरकश्चैव दंशो

नारायणो वृषः ॥ प्रभुश्चेति समाख्याताः साध्या द्वादश देवताः इति ।

१६ मौहूर्तिकाश्च स्वशास्त्रीययत्किंचित्संकेत विषयः । यथा विष्कम्भादिषु

(२७) योगेषु द्वाविंशो योगविशेषः इत्याहुः । ७ मान्त्रिकादयस्तु

खानुकूलताग्राहकः पदार्थः मन्त्रविशेषादिः इत्यङ्गीचक्रुः । अत्रोक्तम्

सिद्धः साध्यः सुसिद्धोरिः क्रमाज्ज्ञेया मनीषिभिः ( वाच० ) इति ।