This page has not been fully proofread.

९९८
 
न्यायकोशः ।
 
•नित्याकाश साधर्म्यादमूर्तत्वान्नित्यः स्यात् । विशेषो वा वक्तव्यः ( गौ० दृ०
५।१।२ ) इति । [ग] साधर्म्येण स्थापना हेतु दूषकमुत्तरम् । य
• आत्मा सक्रियः क्रियाहेतुगुणवत्त्वाल्लोष्टवत् इति स्थापनायामुत्तरम् । यदि
सक्रियसाधर्म्यात्सक्रियस्तदा विभुत्वरूपान्निष्क्रियसाधर्म्यान्निष्क्रिय एव किं
 
न स्यात् । न चात्र किंचिद्विनिगमकमस्ति इति । क्रियाहेतुगुणश्चात्र
• क्रियाजनकवायुसंयोगादिरेव इति बोध्यम् ( नील० १५० ४३ ) /
साधर्म्येदाहरणम् –अन्वय्युदाहरणम् ।
साधर्म्यापनयः– अन्वय्युपनयः ।
 
1
 
साधारण: - १ ( हेत्वाभासः दुष्टहेतुः ) । [क सपक्षविपक्षवृत्तिहेतुः
( भा०प० २ लो० ७४ ) । यथा पर्वतो वह्निमान्प्रमेयत्वात् इत्यादौ
प्रमेयत्वं हेतुः साधारणः । अत्र प्रमेयत्वं हेतुर्हि सपक्षे महानसे विपक्षे
महाहदादौ च वर्तते । अतः साधारणः ( त० सं० ) । एवम् पर्वतो
धूमवान् वः इत्यादावपि । वह्निर्हि सपक्षे महानसे विपक्षे
पिण्डादौ च वर्तते । अतः साधारणः ( त० कौ० २ पृ० १३ ) /
इदं लक्षणं च प्राचीनमतमनुरुध्योक्तम् । अत्र प्राचीनमते साधारणहेतु
ज्ञानेन साध्य संदेहाद्व्याप्तिग्रहो न भवति इत्याशयः (गौ० वृ०
अयं चानैकान्तिकप्रभेदः । तल्लक्षणं च वक्ष्यमाणं साधारणत्वमेव इति
बोध्यम् । अर्वाञ्चो नैयायिकास्तु साधारणमेव हेतुं सव्यभिचारपदेन व्यव
हरन्ति इति दीधितिकृदाह ( दीधि ० २ सव्य० पू० १८३) । [ख]
साध्यात्यन्ताभाववति साध्यवदन्यस्मिन्वा वर्तमानो हेतुः । यथा २
नित्यो निःस्पर्शत्वात् इत्यादौ निःस्पर्शत्वं साधारण: ( गौ० वृ०
 

 

 
१/२/५)।
 
शब्दो
१/२/५)
निःस्पर्शत्व
 
हेतुर्हि अनित्ये रूपादौ वर्तत इति साधारणो भवति इति ज्ञेयम् ।
२ (जाति: ) नित्यसमविशेषः । स च स्वव्याघातकमुत्तरं
( सर्वे० पृ० १५३ पूर्ण० ) । ३ व्यवहारशास्त्रज्ञास्तु
कमेकं धनं साधारणम् । यथा अलंकारोपि यो येन धृतः
। अधृतः साधारणो विभाज्य एव ( याज्ञ० अ० २ छो० १२
 
तस्यैव
 
भवति
स्वत्व
 
अनेक