2023-12-26 06:44:30 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
९९७
 
दीनि तदवृत्तिर्या जातिः ज्ञानत्वादिः तद्वान् विशेषगुण: ज्ञानादिः तद्वत्त्व-

स्यात्मादौ सत्त्वालक्षणसमन्वयः ( दि० १११ पृ० ६१) । अत्रेदं

बोध्यम् । यद्याकाशजीवात्मनोरेव साधर्म्यमुच्यते तदास्मिन्परिष्कारे जन्य

इति पदं न देयम् । द्वेषत्वादिकं धर्ममादाय तत्र लक्षणसमन्वयः कर्तव्यः

(मु० १/१ पृ० ६१ ) । एवमन्येषामपि तत्तःसाधर्म्ये खयमूह्यम् ।

( किर० १/१ पृ० ३९ ) । तथा हि । रूपादीनां गुणानां सर्वेषां

गुणत्वाभिसंबन्धः गुणादीनां द्रव्याश्रितत्वम् समवायिकारणत्वानाश्रयत्वं

च साधर्म्यम् इत्यादि ( प्रशस्त० पृ० ११ ) ।
 

 
<
साधर्म्यसमः>
( जातिः ) [ क ] साधर्म्येणोपसंहारे तद्धर्मविपर्ययोपपत्तेः

साधर्म्यसम: (गौ० ५/१/२) । तदर्थश्च उपसंहारे साध्यस्योपसंहरणे

बादिना कृते तद्धर्मस्य साध्यरूपधर्मस्य यो विपर्ययो व्यतिरेकः तस्य

साधर्म्येण केवलेन व्यायनपेक्षेण यदुपपादनम् ततो हेतोः साधर्म्यसम

उच्यते ( गौ० वृ० ५/११२) इति । साधर्म्यमात्रं गमकतौपयिकम्

इत्यभिमानात् सत्प्रतिपक्षदेशनाभासोयम् । वार्तिककृतस्तु अयमनैका-

न्तिकदेशनाभासः इत्यङ्गीचक्रुः (गौ० दृ० ५/११२ ) । अत्र भाष्यम्।

साधर्म्येणोपसंहारे साध्यधर्मविपर्ययोपपत्तेः साधर्म्येणैव प्रत्यवस्थानम

विशिष्यमाणं स्थापनाहेतुतः साधर्म्यसमः प्रतिषेधः । निदर्शनम् क्रिया-

वानात्मा । द्रव्यस्य क्रियाहेतुगुणयोगात् । द्रव्यं लोष्टः क्रियाहेतुगुणयुक्तः

क्रियावान् । तथा चात्मा । तस्मान् इति । एवमुपसंहृते परः

साधर्म्येणैव प्रत्यवतिष्ठते । निष्क्रिय आत्मा । विभुनो द्रव्यस्य निष्क्रियत्वात् ।

विभु चाकाशं निष्क्रिय च । तथा चात्मा । तस्मान्निष्क्रियः इति । न

चास्ति विशेषहेतुः क्रियावत्साधर्म्यात् क्रियावता भवितव्यंम् न पुनर-

निष्क्रियेण इति । विशेषहेत्वभावात् साधर्म्यसमः प्रतिषेधो

भवति (वात्स्या० ५।१।२) । [ख वादिनान्वयेन व्यतिरेकेण वा

साध्ये साधिते प्रतिवादिनः साधर्म्यमात्रप्रवृत्तहेतुना तदभावापादनम् ।

संहृते नैतदेवम् यद्यनित्य घटसाधम्योन्नित्याकाशवैधर्म्याद्वा अनित्यः स्यात्

यथा शब्दः अनित्यः कृतकत्वाद्धटवत् व्यतिरेकेण वा व्योमवत् इत्युप-