2023-12-26 06:43:51 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

९९६
 
न्यायकोशः ।
 
द्रव्याणाम् । गुणाश्रयवृत्तिसत्ताभिन्नजातिमत्त्वम् इत्यर्थः (ल० व० )

( त० दी० १ पृ० ५ ) । गुणसमानाधिकरणमनोवृ[१]त्तिधर्मवत्खं क्षित्या-

द्यष्टद्रव्याणाम् । आत्ममनःसंयोगाश्रयावृत्तिद्रव्यविभाजकधर्मवत्त्वं क्षिया

दिसप्तानाम् । जगदाधारत्व भूतत्वान्यतरवत्त्वं क्षित्यादीनां षण्णाम् ।

पृथिव्यादीनां पञ्चानां भूतत्वम् इन्द्रियप्रकृतित्वं च । पृथिव्यादिचतुर्णां

द्रव्यारम्भकत्वम् स्पर्शवत्वं च । द्रव्यारम्भकत्वं च द्रव्यसमवायिकारण-

वृत्तिद्रव्यत्वव्याप्यजातिमत्त्वम् । तेन न द्रव्यानारम्भकघटादावव्याप्तिः

(मु० १ पृ० ५९) । रूपवत्त्वम् द्रवत्ववत्वम् प्रत्यक्षविषयत्वं च

पृथिव्यादित्रयस्य । गुरुत्ववत्त्वम् रसवत्वं च पृथिवीजलयोः । नैमित्तिक

द्रवत्ववत्वं पृथिवीतेजसोः । गन्धाश्रयावृत्तिद्रव्यविभाजकधर्मवत्त्वं जला-

द्यष्टद्रव्याणाम् । रसासमानाधिकरणद्रव्यविभाजकधर्मवत्त्वं तेजःप्रभृति-

सप्तद्रव्याणाम् । रूपासमानाधिकरणद्रव्यविभाजकधर्मवत्त्वं वाय्वादीनां

षण्णाम् । स्पर्शवद वृत्तिद्रव्य विभाजकधर्मवत्त्वमाकाशादीनां पञ्चानाम् ।
 

भूतावृत्तिद्रव्यविभाजकधर्मवत्त्वं कालादीनां चतुर्णाम् ।
 
कालोपाध्यसमाना•
 

धिकरणशब्दवदवृत्तिद्रव्यविभाजकोपाधिमत्त्वं दिगात्ममनसाम् / स्वसम

वायिकारणत्वस्वकरणेन्द्रियत्वान्यतरसंबन्धेन सुखप्रत्यक्षवत्वमात्ममनसोः /
 

पृथिव्युदकज्वलनपवनजीवात्ममन सामनेकत्वापरजातिमत्त्वे ।"

कालदिगात्मनां सर्वगतत्वम् ( विभुत्वम् ) परममहत्वम् सर्वसंयोगि

समानदेशत्वं च । पृथिव्युदकजीवात्मनां चतुर्दशगुणवत्त्वम् / दिकालयोः

पञ्चगुणवत्त्वम् । सर्वोत्पत्तिमतां निमित्तकारणत्वम् । विशेष
 
आकाश-

च पृथिव्यादिचतुष्टयस्य मनसश्च । अव्याप्यवृत्तिविशेषगुणवत्त्वम् क्षणिक

विशेषगुणवत्त्वं च आकाशजीवपरमात्मनाम् साधर्म्य भवति ( प्रशस्त
 

क्षणिक विशेषगुणवत्त्वं च चतुःक्षणवृत्तिजन्यावृत्तिजातिमद्विशेषगुणवत्तम्

( मु० १ पृ० ६१ ) । तथा हि । चतुःक्षणवृत्तीनि यानि जन्यानि घटा
 
१।१ पृ० २ ) ( भा० प० ) ( मु० १ ) ( सि०
 
20
 
० ० )
 
इति।
 

 
[^
१ अवृत्तीति पदच्छेदः ।
 
]