This page has not been fully proofread.

न्यायकोशः ।
 
युक्ते उदाहरणे स्थाल्यादि द्रव्यमुत्पत्तिधर्मकमनित्यं दृष्टं तथा शब्द
उत्पत्तिधर्मक इति साध्यस्य शब्दस्योत्पत्तिधर्मकत्वमुपसंह्रियते । उपसं-
ह्रियतेनेनेति चोपसंहारो वेदितव्यः ( वात्स्या० ११११३८ ) । [ख]
तथेति साध्यस्योपसंहारः । यथा पर्वतो वह्निमान्धूमादित्यत्र वह्निव्याप्य -
धूमवानयम् इति वा तथा चायम् इति वोपन्यासः ( गौ० वृ० १।१।
३८) । अन्वय्युपनयलक्षणं चान्वय्युपनयत्वमेव । तच्च साभ्यव्याप्यवि-
शिष्टपक्षबोधकावयवत्वम् ( चि० अव० )।
 
-
 
अन्ववसर्गः - कामचारानुज्ञानम् । यथेष्टं क्रियताम् इत्येवंरूपानुज्ञेत्यर्थः ।
यथा अपि सिञ्च अपि स्तुहीत्यादौ यथेष्टं कुर्याः इत्याद्यर्थोपिना द्योयते
न तु कुत्राप्यनुज्ञया प्रतिरोधः क्रियत इति ( वाच० ) ।
 
123
 

 
अन्वाख्यानम्— तात्पर्यावधारणार्थे प्रतिपादनम् । यथा वस्त्वन्वाख्यानं
क्रियान्याख्यानमित्यादौ ( वा० च० ) ।
 
अन्वाचयः – उद्देश्यसिद्ध्यानुद्देश्य सिद्ध्यर्थोपदेशः । यथा भिक्षां गच्छ यदि
गां पश्येस्तां चानयेत्यादौ । अत्र भिक्षायामेवोद्देशः न तु गवानयने । तत्सि-
द्धयुत्तरं गवानयनमनुद्दिष्टमपि साध्यतया निर्दिष्टम् इति ( वाच० ) ।
प्रधानगुणभावेन यत्र क्रियान्वयतात्पर्य सोन्वाचयः ( त० प्र० ख० ४
पृ० ५२ ) । क्रियामेदे त्वन्वाचयः । यथा एधानाहतु वनं व्रज शाक-
मप्यानेष्यसि इति ।
 

 
अन्वादेश: -[ क ] पूर्वोपात्तस्य किंचित्कार्यान्तरं विधातुं पुनरुपदेशः ।
यथा अनेन व्याकरणमचीतम् न्यायमेनं पाठय इति न्यायपाठनार्थे पुन-
रुपदेश: ( सि० कौ० ) ( वाच० ) । [ ख ] कथितकथनम्
( वाच० ) ।
 
a pangan dan
 
अन्वाधानम् – इध्माबहि:संपादनम् अग्निपरिग्रहः उपस्तरणं चेत्येवमादि
( पु० चि० पृ० ३१८ ) ।
 
अन्वाधेयम् – विवाहात्परतो यच्च लब्धं भर्तृकुलास्त्रिया ।
 

 
तद्रव्यं लब्धं पितृकुलात्तथा ॥ ( मिताक्षरा अ० २ को०
 
अन्वाधेयं तु
१४४ ) ।