This page has not been fully proofread.

न्यायकोशः ।
 
९९१
 
• व्यक्तं सादृश्य मिष्यते ॥ (चि० ख० ३ पृ० २) इति । अत्र विप्रति-
पत्तिः सादृश्यं च सप्तपदार्थातिरिक्तं वा न वा इति । तत्र सादृश्यं सप्त-
पदार्थातिरिक्तम् इति मीमांसकादय आहुः । तत् तदतिरिक्तः पदार्थों न
॥ भवति इति नैयायिकाः प्राहु: ( चि० ख० ३) । तत्र मीमांसकमते
सादृश्यस्यातिरिक्तत्वे प्रमाणं च सादृश्यं न षड़ावेष्यन्तर्भवति । व्यति-
रेकित्वे सति सामान्येतरवृत्तित्वे च सति सामान्य वृत्तित्वात् अभाववत्
इति । सादृश्यमभावेपि नान्तर्भवति भावत्वेन प्रतीयमानत्वात् इत्यनु-
मानम् । तेन सादृश्यं कृप्तसप्तपदार्थातिरिक्तं सिद्ध्यति इति । अत्र पद-
प्रयोजनम् । सामान्यत्वे व्यभिचारवारणाय सामान्येतरवृत्तित्व इति पदम् ।
प्रमेयत्वे व्यभिचारवारणाय व्यतिरेकित्व इति पदम् । भावत्वे च द्रव्यादि-
पढान्यतमत्व रूपे हेतुमति साध्यस्य सच्चान्न व्यभिचारः इति । सादृश्यस्य
सामान्यवृत्तिवे प्रमाणं तु यथा गोत्वं नित्यम् तथाश्वत्वमपि नित्यम् इति
सादृश्यप्रतीतिः । तथा च सादृश्यस्य द्रव्याद्यन्तभूतत्वे बाधकमपि यदि
सादृश्यं द्रव्यादावन्तर्भूतं तदा द्रव्यादेः सामान्यावृत्तित्वेन यथा गोवं
• नित्यम् तथाश्वत्वम् इत्यबाधितप्रतीतिर्न स्यात् (दि० १ पृ० २४) इति ।
● नव्या अपि सादृश्यमतिरिक्तमेव । न च अतिरिक्त पदार्थविभाग-
• व्याघातः इति वाच्यम् । तस्य पदार्थविभागस्य साक्षात्परंपरया वा
तत्त्वज्ञानोपयोगिपदार्थमात्र निरूपणपरत्वात् । एवम् अधिकरणत्वम् विषय-
त्वम् प्रतियोगित्वम् इत्यादिकमप्यतिरिक्त पदार्थः इत्याहुः ( दि० १
पृ० २४ - २८ ) । [ख ] तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्वम् । तच्च
● भाव: । तद्भिन्नत्वे सतीत्यस्यार्थस्तु तद्गतभूयोधर्मसदृशधर्मवत्त्वम् । तेन
 
● भेदेन भिन्नतया चन्द्रगताह्लादजनकत्वस्य चन्द्रमात्रवृत्तितया मुखे तद-
चन्द्रवन्मुखम् इत्यादौ आह्वादजनकत्वरूप सादृश्यघटकजनकताया जनक-
● भावेपि न क्षतिः । अत्र चन्द्रवन्मुखम् इत्यादी धर्म धर्मसादृश्यं च
• जनकतात्वादिना विज्ञेयम् । स च धर्मोनुगत एव इति । अवशिष्टं तु
• तुल्यत्वशब्दार्थे संपादितं तत्र द्रष्टव्यम् । अथ वा तत्र साधारण्येन विद्य-
माना ये भूयांसो धर्माः तद्वत्त्वम् इति । अत्र सादृश्यनिरूपकेतिव्याप्ति-
*