2023-12-26 06:36:22 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
-
योभिमान विशेषः सैवोपलब्धि: । त्रक्चन्दनादि विषयसंनिकर्षादिन्द्रिय-

अत एव ज्ञानसुखदुःखेच्छा द्वेषप्रयत्नसंस्कारधर्माधर्माः सर्व एव बुद्धेः

प्रणाडिकयैव सुखदुःखाद्याकारो बुद्धेरेव यः परिणाम विशेषः स प्रत्ययः ।

परिणामविशेषाः सूक्ष्ममात्रया प्रकृतावेव वर्तमाना अवस्थाभेदादावि

भवन्ति तिरोभवन्ति च । पुरुषस्तु पुष्करपलाशवन्निर्लेपः प्रतिबिम्बते परं

बुद्धौ (वै० उ० ८ । १ । १ पृ० ३५६) इति । तन्मते तत्त्वानि पञ्चविं-

शतिः मूलप्रकृतिः १ महत्तत्वम् २ अहंकार: ३ पञ्चतन्मात्राणि शब्द-

स्पर्शरूपरसगन्धाः ४-८ पञ्च भूतानि पृथिव्यप्तेजोवाय्वाकाशाः ९-१३

पञ्च ज्ञानेन्द्रियाणि चक्षुस्त्वग्रसनघ्राणश्रोत्राणि १४-१८ पञ्च कर्मे-

न्द्रियाणि पायूपस्थपाणिपादवाचः १९-२३ मनः २४ पुरुष २५ श्चेति

(सांख्यसू० अ० १ सू० ६१) । तत्र चतुर्धा विभागः केवला प्रकृतिः

केवला विकृतिः प्रकृतिविकृत्युभयम् अनुभयं चेति । तद्यथोक्तम् मूलप्र-

कृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकस्तु विकारो न

प्रकृतिर्न विकृतिः पुरुषः ॥ ( सांख्यकारिका ३) इति । एतन्मते पर

णामवादः । निरीश्वरसांख्यमते परमात्मा न स्वीक्रियते । अत्र शिष्टं तु

मत्कृते षड्दर्शनसार निरुक्तिनाम के प्राकृतभाषाबद्धे चोपन्यासे दृश्यम् ।

३ सांख्यशब्देन ज्ञानवानप्युच्यते । अत्रार्थे संख्या ज्ञानम् तद्वान् संख्यः

(अच् ) स एव सांख्यः इति व्युत्पत्तिज्ञेया । तदुक्तं महाभारते संख्यां

प्रकुर्वते चैव प्रकृतिं च प्रचक्षते । चतुर्विंशतितत्त्वानि तेन सांख्याः

प्रकीर्तिताः ॥ ( सांख्यभा० पृ० ८ ) इति ।

 
<
सांवादिकः - >
संवाददाता । स च नैयायिकः ( जटा० ) ( वाच० ) ।

 
<
सांसिद्धिकम् - >
(द्रवत्वम् ) स्वभावनिर्वृत्तम् । निमित्तान्तराजन्यमित्यर्थः ।

यथा जलनिष्ठं द्रवत्वं सांसिद्धिकम् । हिमादीनां घनीभावः कारण-

विशेषेण । द्रवीभावस्त सांसिद्धिकः । घृतादीनां तु घनीभावः सांसि-

द्धिकः । द्रवीभावस्तु नैमित्तिकः इति तयोर्विशेषः । शिष्टं तु द्रवत्व-

शब्दव्याख्यानादौ दृश्यम् ।
 

 
<
साकाङ्क्षत्वम् - >
१ अन्योन्यविषयाकाङ्क्षाजनकत्वम् (त० मा० ४ पृ०

१८) । यथा गामानय इत्यादौ गवानयनयोः साकाङ्क्षत्वम् । नियत-
-
 
A
 
९८७
 
.