2023-12-26 06:35:27 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
प्रवचनसंज्ञा ज्ञेया (सांख्य० भा० १११ प्रस्ता० पृ० ७) । [ग]

नास्तिककपिलप्रणीतो दर्शनविशेषः । अत्रेदं बोध्यम् । नास्तिककपिलेन

स्वयं पूर्वप्रणीतस्य सांख्य प्रवचनसंज्ञकस्य तत्त्वसमासाख्यस्य द्वाविंशति-

(२२) संख्यकस्य संक्षिप्तसूत्रस्य विस्तररूपेण षडध्यायात्मकः अथ

त्रिविधदुःखात्यन्तनिवृत्तिरत्यन्तपुरुषार्थः इत्यारभ्य यद्वा तद्वा तदुच्छित्तिः

विरचितः इति । नास्तिककपिलप्रणीतसांख्यस्य पतञ्जलिप्रणीतयोग-

पुरुषार्थस्तदुच्छित्तिः पुरुषार्थः इत्येतत्पर्यन्तः सूत्रोपनिबद्ध
•●

शास्त्रस्य चानुपादेयत्वमुक्तं भारते मोक्षधर्मेषु सांख्यं योगः पाशुपत

वेदारण्यकमेव च । ज्ञानान्येतानि भिन्नानि नात्र कार्या विचारणा ॥

( गीता० मध्यभा० अ० २ लो० ३९) इति । सांख्यमतप्रवर्तकच

आस्तिकनास्तिकभेदेन द्विविधः । तत्रास्तिको द्वौ देवहूतीपुत्रः

सेश्वरसांख्यो योगशास्त्रप्रवर्तकः पतञ्जलिनामा ब्राह्मणश्च ।
 

 

कस्तु निरीश्वरसख्यिो देवहूतीपुत्रादन्यः कपिलनामा कश्चिद्राह्मणः ।

देवहूतीपुस्तु सांख्य प्रवर्तकः श्रीवासुदेवावतार आस्तिक एव ।

प्रसूतं कपिलं यस्तम ज्ञानैर्बिभर्ति जायमानं च पश्येत् ( ०

राजयोगा ख्यमे काव्यायं पादचतुष्टयात्मकं अथ योगानुशासनम् इत्यारम्

५१२ ) इति श्रुतेः । सिद्धानां कपिलो मुनिः इति स्मृतेश्च । स

पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चिच्छक्ति

रिति इत्येतत्पर्यन्तं सूत्रोपनिबद्धं योगशास्त्रं प्रणिनाय इति । अथ कपिल-

मतं संक्षेपेणोच्यते । सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः । सा चैकैव /

पुरुषास्तु परं भिद्यन्ते । ते च कूटस्था नित्या अपरिणामिनों नित्य-

चैतन्यस्वभावाः । ते च पङ्गवः । अपरिणामित्वात् । प्रकृतिस्त्वन्धा ।

जडत्वात् । यदा विषयभोगेच्छा प्रकृतिपुरुषभेददिदृक्षा

तदा सा पुरुषोपरागवशात् परिणमते । तस्याश्चाद्यः परिणामो बुद्धि-

रन्तःकरणविशेषः । बुद्धिरेव महत्तत्त्वम् । सा च
 
बुद्धिर्दर्पणवन्निर्मला ।
 

तस्याश्च बहिरिन्द्रियप्रणाडिकया विषयाकारो यः परिणतिभेदो घटः इति
 

कपिल:
नास्ति-
.
 
ऋर्षि
 
च प्रकृतेर्भवति
 
पटः इति तत् ज्ञानम् वृत्तिः इति चाख्याते।

वर्तमानेन ज्ञानेन चैतन्यस्य पुरुषस्य भेदाप्रहात् अहं जानामि इति
 
स्वच्छायां बुद्धौ