This page has not been fully proofread.

न्यायकोशः ।
 
अन्वय्युदाहरणम्- ( उदाहरणम् ) तलक्षणं चान्वय्युदाहरणत्वमेव ।
तच्च साध्यसाधनसंबन्धबोधजनकत्वम् ( चि० अव० २१८० ) ।
अन्वयव्याप्तिबोधकत्वम् ( दीधि ० २ ११७७ ) । तच्च एतद्यो यो
धूमवान्स सोग्निमानिति शब्दवृत्त्यवयव विभाजकोपाधिमत्त्वम् ( न्या० म०
२ । २३ - २४ ) । [क ] साव्यसाधर्म्यात्तद्धर्मभावी दृष्टान्तः ( गौ०
१ । १ । ३६ ) । साध्येन साधर्म्य समानधर्मता । साध्यसाधर्म्यात्कारणात्त-
द्धर्मभावी दृष्टान्त इति । तस्य धर्मस्तद्धर्मः । तस्य साध्यस्य । साध्यं च
द्विविधम्-धर्मिविशिष्टो वा धर्मः शब्दस्यानित्यत्वम् । धर्मविशिष्टो वा
धर्मी अनित्यः शब्दः इति । इहोत्तरं तद्ब्रहणेन गृह्यत इति । कस्मात् ।
पृथग्धर्मवचनात् । तस्य धर्मस्तद्धर्मः । तस्य भावस्तद्धर्मभावः । स यस्मिन्द-
ष्टान्ते वर्तते स दृष्टान्तः साध्यसाधर्म्यात्तद्धर्मभावी भवति । इहोत्तरं
तहणेन गृह्यत इत्यत्र इह तग्रहणेनोत्तरं गृह्यत इत्यन्वयः । अयमर्थ :-
इह नाम तद्धर्मभावीत्यत्र तद्ग्रहणेन नाम तच्छन्देन उत्तरं नाम द्विविध-
साध्यमध्ये द्वितीयं धर्मविशिष्टो धर्मीत्याकारकं गृह्यत इति । स चोदाह-
रणमिष्यते । तत्र यदुत्पद्यते तदुत्पत्तिधर्मकम् । तच्च भूत्वा न भवत्यात्मानं
जहाति निरुध्यत इत्यनित्यम् । एवमुत्पत्तिधर्मकत्वं साधनम् । अनित्यत्वं
साध्यम् । सोयमेकस्मिन् द्वयोर्धर्मयोः साध्यसाधनभावः साधर्म्याद्वयवस्थित
उपलभ्यते । तं दृष्टान्ते उपलभमानः शब्देप्यनुमिनोति । शब्दोप्युत्पत्तिधर्म-
कत्वादनित्यः स्थाल्यादिवदित्युदाह्वियते । तेन धर्मयोः साध्यसाधनभाव
इत्युदाहरणम् (वात्स्या० १ । १ । ३६ ) । [ ख ] साधनवत्ताप्रयुक्तसा-
ध्यवत्तानुभावकोवयवः । साध्यसाधनव्याप्युपदर्शकोदाहरणमिति यावत्
( गौ० वृ० १ । १ । ३६ ) । [ग] प्रकृतहेतुमति प्रकृतहेतुव्यापक-
त्वविशिष्टसाध्यबोधकवाक्यम् (नील० २२ ) । यथा पर्वतो वह्निमान्धू-
मान्महानसवदित्यादौ यो यो धूमवान्स स वह्निमान्यथा महानसः इति
वाक्यम् ( त० सं० २ ) ।
 
५०
 
अन्वय्युपनयः - [ क ] उदाहरणापेक्षस्तथेत्युपसंहारः साध्यस्योपनयः
( गौ० ११ १२ १३८ ) । उदाहरणापेक्ष उदाहरणतन्त्रः । साध्यसाधर्म्य-