This page has not been fully proofread.

न्यायकोशः ।
 
९८५
 
कक्षणावच्छिन्नसामानाधिकरण्यम् । यथा घट-
सहावस्थायित्वम् – एकदेशै
पटयोर्ज्ञानेच्छयोश्च सहावस्थायित्वम् ।
सहितत्वम् – साहित्यम् ।
 
सहृदय:- १ प्रशस्तचित्तः । यथा व्यासगौतमकणादादयः सहृदयाः ।
२ आलंकारिकास्तु काव्यार्थभावनाधीनपरिपक्कबुद्धिः । यथा काव्यं
यथायोगं कवेः सहृदयस्य च यश आनन्दादि करोति ( काव्यप्र०
(११२) इत्यादौ परिष्कुर्वन्त्यर्थान् सहृदयधुरीणाः कतिपये (रसगङ्गाधरः)
 
इत्यादौ च सहृदयशब्दस्यार्थ इत्याहुः ।
 
सांकर्यम् – १ (दोष: ) संकरः । र एकत्र मेलनम् इति पदार्थविज्ञानवन्त
 
आहुः ।
 
CAPOAT
 
साख्यम् -१ सम्यग्दर्शनम् यथा एषा तेभिहिता सांख्ये बुद्धियोंगे
• त्विमां शृणु ( गीता० २।३९ ) इत्यादौ सांख्यशब्दस्यार्थः । तदुक्तम्
शुद्धात्मतत्त्व विज्ञानं सांख्यमित्यभिधीयते ( व्यासस्मृतिः) (गीता मध्यभा
अ० २ श्लो० ३९ ) इति । २ [क] सम्यग्दर्शन प्रतिपादकं शास्त्रम् ।
यथा देवहूतीं प्रति भगवतोपदिष्टं सांख्यदर्शनम् (भक्तियोगः) (भाग ०
स्क० ३ अ० २६ २७) । अत्रार्थे व्युत्पत्तिः संख्यायते इति संख्या
सम्यग्ज्ञानम् । तत्संबन्धि सांख्यम् ( अण् ) इति । एतत्सांख्यस्य प्रवर्तको
देवहूतीपुत्रः श्रीभगवदवतारः कपिलः श्रीमद्भागवतादौ प्रसिद्धः । तदु-
क्तम् कपिलस्तत्त्वसंख्याता भगवानात्ममायया । जातः स्वयमजः साक्षा-
दात्मप्रज्ञप्तये
 
श्लो० १) इति ।
 
नृणाम् ॥ ( भाग० स्क० ३ अ०
 
अ० २५ श्लो०
१ )
 
● अत्रोक्तम् पञ्चमः कपिलो नाम सिद्धेशः कालविलुतम् । प्रोवाचासुर
 

 
सांख्य संख्यात्मकत्वाच्च कपिलादिभिरुच्यते ( मात्स्यपु० अ० ३) इति ।
[ख] सांख्योक्तो योगः । भगवदुक्तो योगस्तु योग आध्यात्मिकः
पुंसामतो निःश्रेयसाय मे । अत्यन्तोपरतिर्यत्र दुःखस्य च सुखस्य वे ॥
( भाग० ३।२५/१३) इत्यादिना ग्रन्थेनोक्त इति विज्ञेयम् । एवम्
पतञ्जलि प्रणीतस्य योगशास्त्रस्यै काध्यायात्मकपादचतुष्टयस्यापि सांख्य-
900
 
१२४ न्या० को●