2023-12-26 06:33:18 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

९८४
 
न्यायकोशः ।
 
इति फलितोथे: ( ग० व्यु० का० ३ पृ० ८९ ) । अयमर्थः । पुत्रेण

सहागतः पिता इत्यादौ पितुः क्रियासंबन्धः साक्षाच्छब्देनोच्यते पुत्रस्य

तु प्रतीयमानः इति पुत्रस्याप्राधान्यम् इति वैयाकरणा आहुः ( काशिका

२।३।१९ ) । [घ ] तत्क्रियाकालीनत्वम् । यथा शिष्येण सहागतो

गुरुः इत्यादौ । अत्र कर्तृत्वं तृतीयार्थः । तस्य सहशब्दार्थैकदेश क्रियाया-

मन्वयः । सहशब्दार्थस्य तादृशकालीनत्वस्य च धात्वर्थेन्वयः । इत्थं च

शिष्यकर्तृकागमनकालीनागमनकर्ता गुरुः इति बोधः ( म० प्र०

पृ० ६ ) । [ङ ] समभिव्याहृतपदोपस्थाप्यो यत्किंचिद्धर्मः । यथा

शिष्येण सह गुरुर्ब्राह्मणः पुत्रेण सह पिता सुन्दरः इत्यादौ सहशब्द-

स्वार्थ: । अत्र सहशब्दार्थो ब्राह्मण्यसौन्दर्यादि । तस्य समानकालीनत्व-

संबन्धेन ब्राह्मणसुन्दरादिपदार्थैकदेशेन्वयः । परे तु सहार्थः साहित्यम

एकधर्मान्वयित्वरूपम् । तृतीयार्थो वृत्तित्वम् संख्यामात्रं वा । तथा च

शिष्यसाहित्यवान् गुरुर्ब्राह्मणः इत्यादिबोधः इत्याहुः ( काव्या० पृ०८ ) ।

२ शाब्दिकास्तु सह विद्यमानत्वम् । यथा सहैव दशभिः पुत्रै
 

वहति गर्दभी इत्यादौ सहशब्दार्थ इत्याहु: ( ल० म०

व्यम् । ४ सादृश्यम् । ५ योगपद्यम् ।
( मेदि० ) । ८ सामर्थ्यम् ( शब्दमा० ) ।
 
३ साक-
-
 
15
 
"

६ समृद्धिः । ७ संबन्धः
 

 
<
सहकारः - >
१ सहकर्मकरणम् ( सहकारित्वम् ) । २ सुगन्धिराम्रः इति
 

काव्यज्ञा आहुः (अमरः २।४ । ३३ ) ।
 
सहकारित्वम् -

 
<सहकारित्वम्>
स्वभिन्नत्वे सति स्वकार्यकारित्वम् । यथा दण्डस्य मृत्तिका
 

कार्यघटकारित्वम् ।
 

 
<
सहचार: - >
सामानाधिकरण्यम् ( दीधि० २ ) ।
 

 
<
सहचरितत्वम् - >
१ सामानाधिकरण्यम् । २ कचित् व्याप्तिमत्त्वम् / यथा

साध्येनासहचरितो व्याप्यत्वासिद्धः इत्यादौ सहचरितत्व शब्दार्थो व्याप्तिः ।

 
<
सहायता - >
अन्यकर्तृक क्रियायामप्राधान्येनान्वयित्वम् / यथा देवदत्तो य

दत्तेन सह तण्डुलं पचति इत्यादौ यज्ञदत्तस्य पचनक्रियायां सहायता /
 
-