2023-12-26 06:29:42 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
९७९
 
देव
 
इति । (४) जातिविकल्पको यथा गौः इति । (५) विशेषविकल्पको

यथा विशिष्टः परमाणुः इति । (६) समवायविकल्पको यथा पट

समवायिनस्तन्तवः इति । (७) नामविकल्पको यथा देवदत्तः इति ।

(८) अभावविकल्पको यथा घटाभाववद्भुतलम् इति इत्याहुः (प्र०

प० पृ० ११ ) । [घ ] मायावादिवेदान्तिनस्तु ज्ञातृज्ञेयभेदादिसहितं

ज्ञानं सविकल्पकम् इत्याहुः । [ङ ] योगशास्त्रज्ञास्तु संप्रज्ञाताख्यः

समाधिविशेष इत्याहुः । अत्र सौगताः कीर्तिदिङ्गागादयो नास्तिकास्तु

सविकल्पकं न प्रत्यक्षम् न च प्रमाणम् । तस्य घटत्वादिरूपालीको-

परक्तत्वाद्वन्ध्या पुत्रज्ञानवत् । निर्विकल्पकं तु स्वलक्षणवस्तूपरक्तत्वात्स्या-

प्रत्यक्षम् प्रमाणं च इत्याहुः (वै० उ० ८/१/२ ) ( सि० च० १

पृ० २२) । तेषां सौगतानामयमाशयः । सविकल्पकं हि न प्रमाणम् ।

तथा हि । अभिलापसंसर्गयोग्यप्रतिभासं हि तत् । न ह्यभिलापेन नाम्ना

संभवत्यर्थस्य संबन्धः । येन घटः इति पटः इति वा नामानुरक्षितः

प्रत्यय: स्यात् । न च जात्यादि परमार्थसत् । येन तद्वैशिष्यं विषयेषु

इन्द्रियेण गृह्येत । न च सतः स्वलक्षणस्यासता संबन्धः संभवति । न

महिम्ना च सविकल्पकमुत्पद्यमानं तत्रार्थे प्रवर्तयत् प्रत्यक्षम् इति

चासदिन्द्रियगोचरः । तस्मात् इन्द्रियेणालोचनं जन्यते । आलोचन-

 
<
सविचारः>
( समाधिः ) यदा तन्मात्रान्तःकरणलक्षणं सूक्ष्मं विषय-

प्रमाणम् इति चोच्यते ( वै० उ० ८।१/२ पृ० ५८३ ) इति ।

मालम्ब्य देशाद्यवच्छेदेन भावना प्रवर्तते तदा सविचारः ( सर्व० सं०
 
www
 
MEMBER
 

पृ० ३५७ पात० ) ।
 

 
<
सवितर्क:- >
(समाधिः ) यदा पृथिव्यादीनि स्थूलानि विषयत्वेनादाय
•●●

पूर्वापरानुसंधानेन शब्दार्थोल्लेख्य संभेदेन च भावना प्रवर्तते स समाधिः

सवितर्कः ( सर्व० सं० पृ० ३५६ पात ० ) ।

 
<
सव्यभिचारः - >
( हेत्वाभास: दुष्टहेतुः ) अनैकान्तिकः सव्यभिचारः

(गौ० १।२।५ ) । अत्र व्युत्पत्तिः व्यभिचारेण सहितः सव्यभिचारः

इति । साधारणस्थले व्यभिचारश्च हेतुनिष्ठसाध्या भाववद्वृत्तित्वादिरूपः
 
-
 
-
 
1