This page has not been fully proofread.

न्यायकोशः ।
 
९७९
 
देव
 
इति । (४) जातिविकल्पको यथा गौः इति । (५) विशेषविकल्पको
यथा विशिष्टः परमाणुः इति । (६) समवायविकल्पको यथा पट
• समवायिनस्तन्तवः इति । (७) नामविकल्पको यथा देवदत्तः इति ।
(८) अभावविकल्पको यथा घटाभाववद्भुतलम् इति इत्याहुः (प्र०
प० पृ० ११ ) । [घ ] मायावादिवेदान्तिनस्तु ज्ञातृज्ञेयभेदादिसहितं
ज्ञानं सविकल्पकम् इत्याहुः । [ङ ] योगशास्त्रज्ञास्तु संप्रज्ञाताख्यः
समाधिविशेष इत्याहुः । अत्र सौगताः कीर्तिदिङ्गागादयो नास्तिकास्तु
सविकल्पकं न प्रत्यक्षम् न च प्रमाणम् । तस्य घटत्वादिरूपालीको-
परक्तत्वाद्वन्ध्या पुत्रज्ञानवत् । निर्विकल्पकं तु स्वलक्षणवस्तूपरक्तत्वात्स्या-
प्रत्यक्षम् प्रमाणं च इत्याहुः (वै० उ० ८/१/२ ) ( सि० च० १
पृ० २२) । तेषां सौगतानामयमाशयः । सविकल्पकं हि न प्रमाणम् ।
तथा हि । अभिलापसंसर्गयोग्यप्रतिभासं हि तत् । न ह्यभिलापेन नाम्ना
संभवत्यर्थस्य संबन्धः । येन घटः इति पटः इति वा नामानुरक्षितः
प्रत्यय: स्यात् । न च जात्यादि परमार्थसत् । येन तद्वैशिष्यं विषयेषु
इन्द्रियेण गृह्येत । न च सतः स्वलक्षणस्यासता संबन्धः संभवति । न
• महिम्ना च सविकल्पकमुत्पद्यमानं तत्रार्थे प्रवर्तयत् प्रत्यक्षम् इति
चासदिन्द्रियगोचरः । तस्मात् इन्द्रियेणालोचनं जन्यते । आलोचन-
सविचारः – ( समाधिः ) यदा तन्मात्रान्तःकरणलक्षणं सूक्ष्मं विषय-
• प्रमाणम् इति चोच्यते ( वै० उ० ८।१/२ पृ० ५८३ ) इति ।
• मालम्ब्य देशाद्यवच्छेदेन भावना प्रवर्तते तदा सविचारः ( सर्व० सं०
 
www
 
MEMBER
 
पृ० ३५७ पात० ) ।
 
सवितर्क:- (समाधिः ) यदा पृथिव्यादीनि स्थूलानि विषयत्वेनादाय
•●●पूर्वापरानुसंधानेन शब्दार्थोल्लेख्य संभेदेन च भावना प्रवर्तते स समाधिः
• सवितर्कः ( सर्व० सं० पृ० ३५६ पात ० ) ।
सव्यभिचारः - ( हेत्वाभास: दुष्टहेतुः ) अनैकान्तिकः सव्यभिचारः
(गौ० १।२।५ ) । अत्र व्युत्पत्तिः व्यभिचारेण सहितः सव्यभिचारः
इति । साधारणस्थले व्यभिचारश्च हेतुनिष्ठसाध्या भाववद्वृत्तित्वादिरूपः
 
-
 
-
 
1