2023-10-18 12:22:41 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
<अन्वयव्याप्तिः - >
(व्याप्तिः) प्रकृतहेतुनिष्ठा प्रकृतसाध्यनिरूपिता व्याप्तिः ।

अन्वयनिरूपिता व्याप्तिरित्यर्थः ( ग० सामा० ) । अन्वयव्याप्तावयं

नियमः—अन्वये साधनं व्याप्यं साध्यं व्यापकमिष्यते । साध्याभाव
 

व्याप्यो
 
व्यापकः साधनात्ययः ॥ इति ( त० कौ० १२ ) ( सि० च०

२।२६ ) । हेतुसाध्ययोर्व्याप्तिः (त० दी० २ । २३ ) । यथा यत्र धूमस्त-

त्राग्निः
1:
इति साहचर्यनियमः ( त० सं० ) । धूमव्यापकवह्निसामानाधि-

करण्यमित्यर्थः ( न्या० बी० २ । १४ ) । व्याप्तिश्चात्यन्ताभावान्योन्या-

भावभेदेन भिन्ना अव्यभिचरितसामानाधिकरण्यव्यापकसामानाधिकरण्य-

रूपा ( ग० सामा० २३ ) । साध्यवदन्यावृत्तित्वहेतुव्यापकसाध्यसा-

मानाधिकरण्यादिरूपेत्यर्थ: ( न्या० बो० २।१४ ) । तद्भेदतत्स्वरूपत-

लक्षणप्रपञ्चश्च व्याप्तिशब्दव्याख्यानावसरे सविस्तरं संपादयिष्यते इस-

त्रैव विरम्यते ।
 
12 DE
 
४९
 

 
<
अन्वयिहेतुः>
( अवयवः ) [ क ] उदाहरणसाधर्म्यात्साध्यसाधनं हेतुः
-

( गौ० ११ १२ १३४ ) । उदाहरणेन सामान्यात्साध्यस्य धर्मस्य साधनं

प्रज्ञापनं हेतुः । साध्ये प्रतिसंधाय धर्ममुदाहरणे च प्रतिसंधाय तस्य

साधनतावचनं हेतुः । उत्पत्तिधर्मकत्वादिति उत्पत्तिधर्मकमनित्यं दृष्ट-

मिति ( वात्स्या० १ । १॥३४ ) । उदाहरणसाधर्म्यमुदाहरणबोध्यान्वय-

व्याप्तिः । ततोन्वयी हेतुर्ज्ञातव्यः ( गौ० वृ० १।१।३४ ) । अन्व-

यिहेतुलक्षणं चान्वयिहेतुत्वमेव । तच्च अनुमितिकारणीभूतपराम-

र्शप्रयोजकशाब्दज्ञानकारणसाध्या विषयकशाब्दधीजनकप्रतीतान्वयसाध्य-

साधनवाचकहेतुविभक्तिमच्छन्दत्वम् । अस्यार्थप्रयोजनादिकं च हेतु-

शब्दव्याख्यानावसरे संपादयिष्यते । अन्वयव्यात्यभिधायकावयवा-

भिधानप्रयोजकज्ञानजनकहेतुत्व प्रतिपादकविभक्तिमन्न्यायावयवत्वम् ( चि०

२।७९) । [ ख ] ज्ञातान्वयव्याप्तिकहेतुबोधको हेत्ववयवः ( गौ०

वृ० १ । १ । ३४ ) । यथा पर्वतो वह्निमान्धूमान्महानसवदित्यादौ घूमात्

इति शब्दः ।
 

न्या० को० ७