This page has not been fully proofread.

न्यायकोशः ।
 
अन्वयव्याप्तिः - (व्याप्तिः) प्रकृतहेतुनिष्ठा प्रकृतसाध्यनिरूपिता व्याप्तिः ।
अन्वयनिरूपिता व्याप्तिरित्यर्थः ( ग० सामा० ) । अन्वयव्याप्तावयं
नियमः—अन्वये साधनं व्याप्यं साध्यं व्यापकमिष्यते । साध्याभाव
 
व्याप्यो
 
• व्यापकः साधनात्ययः ॥ इति ( त० कौ० १२ ) ( सि० च०
२।२६ ) । हेतुसाध्ययोर्व्याप्तिः (त० दी० २ । २३ ) । यथा यत्र धूमस्त-
त्राग्निः
1: इति साहचर्यनियमः ( त० सं० ) । धूमव्यापकवह्निसामानाधि-
करण्यमित्यर्थः ( न्या० बी० २ । १४ ) । व्याप्तिश्चात्यन्ताभावान्योन्या-
भावभेदेन भिन्ना अव्यभिचरितसामानाधिकरण्यव्यापकसामानाधिकरण्य-
रूपा ( ग० सामा० २३ ) । साध्यवदन्यावृत्तित्वहेतुव्यापकसाध्यसा-
मानाधिकरण्यादिरूपेत्यर्थ: ( न्या० बो० २।१४ ) । तद्भेदतत्स्वरूपत-
लक्षणप्रपञ्चश्च व्याप्तिशब्दव्याख्यानावसरे सविस्तरं संपादयिष्यते इस-
त्रैव विरम्यते ।
 
12 DE
 
४९
 
अन्वयिहेतुः – ( अवयवः ) [ क ] उदाहरणसाधर्म्यात्साध्यसाधनं हेतुः
-
( गौ० ११ १२ १३४ ) । उदाहरणेन सामान्यात्साध्यस्य धर्मस्य साधनं
प्रज्ञापनं हेतुः । साध्ये प्रतिसंधाय धर्ममुदाहरणे च प्रतिसंधाय तस्य
साधनतावचनं हेतुः । उत्पत्तिधर्मकत्वादिति उत्पत्तिधर्मकमनित्यं दृष्ट-
मिति ( वात्स्या० १ । १॥३४ ) । उदाहरणसाधर्म्यमुदाहरणबोध्यान्वय-
व्याप्तिः । ततोन्वयी हेतुर्ज्ञातव्यः ( गौ० वृ० १।१।३४ ) । अन्व-
यिहेतुलक्षणं चान्वयिहेतुत्वमेव । तच्च अनुमितिकारणीभूतपराम-
र्शप्रयोजकशाब्दज्ञानकारणसाध्या विषयकशाब्दधीजनकप्रतीतान्वयसाध्य-
साधनवाचकहेतुविभक्तिमच्छन्दत्वम् । अस्यार्थप्रयोजनादिकं च हेतु-
शब्दव्याख्यानावसरे संपादयिष्यते । अन्वयव्यात्यभिधायकावयवा-
भिधानप्रयोजकज्ञानजनकहेतुत्व प्रतिपादकविभक्तिमन्न्यायावयवत्वम् ( चि०
२।७९) । [ ख ] ज्ञातान्वयव्याप्तिकहेतुबोधको हेत्ववयवः ( गौ०
वृ० १ । १ । ३४ ) । यथा पर्वतो वह्निमान्धूमान्महानसवदित्यादौ घूमात्
इति शब्दः ।
 
न्या० को० ७