2023-12-26 06:24:29 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
९७५
 
-
 
<समुदायत्वम् - >
[क] अनेकपर्याप्तो धर्म: ( ग० अवय० ) । यथा

जलादित्रयोदशभेदसमुदायः पृथिव्यां साध्यते इत्यादौ समुदायत्वशब्दार्थः

( त० दी० २ पृ० २३ ) । [ ख ] अपेक्षाबुद्धिविशेषविषयत्वम् ।

यथा घटपटस्तम्भकुम्भैतत्समुदायत्वम् । त्रित्वादिपर्याप्त संख्या विशेष इत्येक

आहुः । एवम् समूहत्वशब्दोपि व्याख्येयः । अत्र स्मर्यते समुदाय:

प्रत्येकानतिरिक्तः इति नैयायिकानां सिद्धान्त इति ।
 

 
<
समूहः- >
१ समूहालम्बनशब्दवदस्यार्थोनुसंधेयः (वै० सा० द०) ।

२ समुदाय इति काव्यज्ञा आहुः ।
 
WALE
 

 
<
समूहालम्बनम्>
[ क ] नानाप्रकारतानिरूपितं नानामुख्यविशेष्यताशालि

ज्ञानम् ( ग० व्यु० १ ) । यथा अयं घटः अयं पटः अयं स्तम्भः

अयं कुम्भश्च इत्येकं ज्ञानम् । अत्र ज्ञाने विशेषणद्वयदानेन धवखदिरौ

द्वौ इति खङ्गी चैत्रः कुण्डली इति च वाक्यजन्यबोधयोः समूहांलम्बना

त्मकत्वं निराकृतम् इति बोध्यम् ( ग० व्यु० १ ) । संशये तु नाना-

प्रकारता निरूपिताया एकविशेष्यतायाः सत्त्वान्न समूहालम्ब नवम् ।

[ख] यत्र विशेष्यतामेदेन प्रकारताभेदः तज्ज्ञानम् । नानाविशेष्यता-

निरूपितनानाप्रकारताशालि ज्ञानम् इत्यर्थ: ( कृष्णं० ) ।

 
<
सम्यक्चारित्र्यम्झ्>
संसरणकर्मोच्छित्ता बुद्यतस्य श्रद्दधानस्य ज्ञानवतः पाप-

गमनकारणक्रिया निर्वृत्तिः ( सर्व० सं० पृ० ६५ आहे० ) ।

 
<
सम्यग्ज्ञानम्->
[
] यथार्थज्ञानम् । यथा सत्यरजते इदं रजतम् इति

ज्ञानम् । [ख ] अविसंवादकं ज्ञानम् । [ग] यतश्चार्थसिद्धिस्तत् इति

बौद्ध आहुः ( न्या० बि० टी० पृ० ३-६ ) । एतन्मते सम्यग्ज्ञानं

द्विविधम् प्रत्यक्षम् लैङ्गिकं चेति । [ घ ] येन स्वभावेन जीवादयः

पदार्था व्यवस्थितास्तेन स्वभावेन मोहसंशयरहितत्वेनावगमः इत्यार्हता

आहुः । तन्मते सम्यग्ज्ञानं पञ्चविधम् मतिः श्रुतम् अवधिः मनःपर्यायः

केवलं च ( सर्व० पृ० ६३ आई० ) ।

 
<
सम्यग्दर्शनम्>
येन रूपेण जीवाद्यर्थो व्यवस्थितस्तेन रूपेणार्हता प्रति-

पादिते तत्त्वार्थे विपरीताभिनिवेशरहितत्वाद्यपरपर्यायं श्रद्धानम्
( सर्व०
 
सं०
 
-
 
पृ० ६२ आई० ) ।