न्यायकोशः /1029
This page has not been fully proofread.
न्यायकोशः ।
९७५
-
समुदायत्वम् - [क] अनेकपर्याप्तो धर्म: ( ग० अवय० ) । यथा
जलादित्रयोदशभेदसमुदायः पृथिव्यां साध्यते इत्यादौ समुदायत्वशब्दार्थः
( त० दी० २ पृ० २३ ) । [ ख ] अपेक्षाबुद्धिविशेषविषयत्वम् ।
यथा घटपटस्तम्भकुम्भैतत्समुदायत्वम् । त्रित्वादिपर्याप्त संख्या विशेष इत्येक
आहुः । एवम् समूहत्वशब्दोपि व्याख्येयः । अत्र स्मर्यते समुदाय:
प्रत्येकानतिरिक्तः इति नैयायिकानां सिद्धान्त इति ।
समूहः- १ समूहालम्बनशब्दवदस्यार्थोनुसंधेयः (वै० सा० द०) ।
२ समुदाय इति काव्यज्ञा आहुः ।
WALE
समूहालम्बनम् –[ क ] नानाप्रकारतानिरूपितं नानामुख्यविशेष्यताशालि
ज्ञानम् ( ग० व्यु० १ ) । यथा अयं घटः अयं पटः अयं स्तम्भः
अयं कुम्भश्च इत्येकं ज्ञानम् । अत्र ज्ञाने विशेषणद्वयदानेन धवखदिरौ
द्वौ इति खङ्गी चैत्रः कुण्डली इति च वाक्यजन्यबोधयोः समूहांलम्बना
त्मकत्वं निराकृतम् इति बोध्यम् ( ग० व्यु० १ ) । संशये तु नाना-
प्रकारता निरूपिताया एकविशेष्यतायाः सत्त्वान्न समूहालम्ब नवम् ।
[ख] यत्र विशेष्यतामेदेन प्रकारताभेदः तज्ज्ञानम् । नानाविशेष्यता-
निरूपितनानाप्रकारताशालि ज्ञानम् इत्यर्थ: ( कृष्णं० ) ।
सम्यक्चारित्र्यम्—संसरणकर्मोच्छित्ता बुद्यतस्य श्रद्दधानस्य ज्ञानवतः पाप-
गमनकारणक्रिया निर्वृत्तिः ( सर्व० सं० पृ० ६५ आहे० ) ।
सम्यग्ज्ञानम्-क ] यथार्थज्ञानम् । यथा सत्यरजते इदं रजतम् इति
ज्ञानम् । [ख ] अविसंवादकं ज्ञानम् । [ग] यतश्चार्थसिद्धिस्तत् इति
बौद्ध आहुः ( न्या० बि० टी० पृ० ३-६ ) । एतन्मते सम्यग्ज्ञानं
द्विविधम् प्रत्यक्षम् लैङ्गिकं चेति । [ घ ] येन स्वभावेन जीवादयः
पदार्था व्यवस्थितास्तेन स्वभावेन मोहसंशयरहितत्वेनावगमः इत्यार्हता
आहुः । तन्मते सम्यग्ज्ञानं पञ्चविधम् मतिः श्रुतम् अवधिः मनःपर्यायः
केवलं च ( सर्व० पृ० ६३ आई० ) ।
सम्यग्दर्शनम् – येन रूपेण जीवाद्यर्थो व्यवस्थितस्तेन रूपेणार्हता प्रति-
●पादिते तत्त्वार्थे विपरीताभिनिवेशरहितत्वाद्यपरपर्यायं श्रद्धानम् ( सर्व०
सं०
-
पृ० ६२ आई० ) ।