2023-12-26 06:22:50 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
<समाह्वयः>
प्राणिभिः क्रियमाणस्तु स विज्ञेयः समाह्वयः ( मिताक्षरा
 

अ० २।११९ ) ।
 
९७४
 
-
 

 
<
समितिः>
प्राणिपीडापरिहारेण सम्यगयनम् ( सर्व० सं० पृ० ७८-
2008
 

७९ आर्ह० ) ।
 

 
<
समीपत्वम्.
संनिकृष्टत्वम् ।
 

 
<
समुच्चयः>
१ [ क ] विरोधानवगाही कोटिद्वयसामानाधिकरण्यावगाही च

निश्चयः । यथा पर्वतो वह्निमान् वह्नयभाववांश्च इति ज्ञानम् । अव्याप्य-

वृत्तित्वज्ञानकाले कोटिद्वयोपस्थितौ सत्यामिदं ज्ञानमुत्पद्यत इति विज्ञेयम्।

गादाघरीयबाधग्रन्थफक्किकाया अयमेवाभिप्रायः इति प्रतिभाति । [ख]

धर्मितावच्छेदकसामानाधिकरण्ये नोभयकोट्यवगाहिज्ञानम् (त० प्र० २) ।
 

यथा वृक्षः कपिसंयोगतदभाववान् इति ज्ञानम् । २ निरपेक्षाणामेकत्रा-

न्वयः । स च यत्र असंबद्धे एकैकश: क्रियान्वयः । यथा धवं छिन्धि खदिरं

च छिन्धि इति समुच्चये तुल्यवदसंबद्धयोः क्रियान्वयधीः । अत्रायं विशेष

प्राधान्येन यत्र क्रियान्वये तात्पर्यम् स समुच्चय इति ( त० प्र० ख०४

पृ० ५२ ) । शाब्दिकास्तु यत्र परस्परनिरपेक्षाणाम नेकेषा मेकस्मिन्क्रिया-

दावन्वयः सः । यथा देवदत्तो यज्ञदत्तश्च गच्छतीत्यत्र देवदत्तयज्ञदत्तयोः

परस्परसापेक्षत्वाभावेपि एकस्मिन् गमनेन्वय इति । तद्वाचकश्च

चकारः । कचित् तथा इत्यादिशब्दोपि वाचको भवति इत्यादुः ।

अन्वयश्च विशेष्यतया विशेषणतया वा । तत्राद्यम् चैत्रो गच्छति पति

च इत्यादौ क्रियासमुच्चये । द्वितीयम् ईश्वरं गुरुं च भजस्व इत्याद

द्रव्यसमुच्चये ( वाच० ) । शिष्टं तु चशब्दे द्वन्द्वशब्दे च दृश्यम् ।

 
<
समुत्थानम्>
व्रणरोपणम् ( मिताक्षरा अ० २।२२२ ) ।

 
<
समुदयः - >
रागादीनां गणोयं स्यात्समुदेति नृणां हृदि ।

स्वभावाख्यः स स्यात्समुदयः पुनः ॥ ( सर्व० सं० पृ० ४६ बा

 
<
समुदाय:- >
दुःखकारणम् । तद्द्विविधम् । प्रत्ययोपनिबन्धनो हेतूप निबन्ध
 

नश्च ( सर्व० सं० पृ० ४० बौ० ) ।
 
-
 
प्रायेण
 
आत्मात्मीय
० //
 
PPP