This page has not been fully proofread.

न्यायकोशः ।
 
समाह्वयः – प्राणिभिः क्रियमाणस्तु स विज्ञेयः समाह्वयः ( मिताक्षरा
 
अ० २।११९ ) ।
 
९७४
 
-
 
समितिः– प्राणिपीडापरिहारेण सम्यगयनम् ( सर्व० सं० पृ० ७८-
2008
 
७९ आर्ह० ) ।
 
समीपत्वम् – संनिकृष्टत्वम् ।
 
समुच्चयः – १ [ क ] विरोधानवगाही कोटिद्वयसामानाधिकरण्यावगाही च
निश्चयः । यथा पर्वतो वह्निमान् वह्नयभाववांश्च इति ज्ञानम् । अव्याप्य-
वृत्तित्वज्ञानकाले कोटिद्वयोपस्थितौ सत्यामिदं ज्ञानमुत्पद्यत इति विज्ञेयम्।
गादाघरीयबाधग्रन्थफक्किकाया अयमेवाभिप्रायः इति प्रतिभाति । [ख]
धर्मितावच्छेदकसामानाधिकरण्ये नोभयकोट्यवगाहिज्ञानम् (त० प्र० २) ।
 
यथा वृक्षः कपिसंयोगतदभाववान् इति ज्ञानम् । २ निरपेक्षाणामेकत्रा-
न्वयः । स च यत्र असंबद्धे एकैकश: क्रियान्वयः । यथा धवं छिन्धि खदिरं
च छिन्धि इति समुच्चये तुल्यवदसंबद्धयोः क्रियान्वयधीः । अत्रायं विशेष
प्राधान्येन यत्र क्रियान्वये तात्पर्यम् स समुच्चय इति ( त० प्र० ख०४
पृ० ५२ ) । शाब्दिकास्तु यत्र परस्परनिरपेक्षाणाम नेकेषा मेकस्मिन्क्रिया-
दावन्वयः सः । यथा देवदत्तो यज्ञदत्तश्च गच्छतीत्यत्र देवदत्तयज्ञदत्तयोः
परस्परसापेक्षत्वाभावेपि एकस्मिन् गमनेन्वय इति । तद्वाचकश्च
चकारः । कचित् तथा इत्यादिशब्दोपि वाचको भवति इत्यादुः ।
अन्वयश्च विशेष्यतया विशेषणतया वा । तत्राद्यम् चैत्रो गच्छति पति
च इत्यादौ क्रियासमुच्चये । द्वितीयम् ईश्वरं गुरुं च भजस्व इत्याद
द्रव्यसमुच्चये ( वाच० ) । शिष्टं तु चशब्दे द्वन्द्वशब्दे च दृश्यम् ।
समुत्थानम् – व्रणरोपणम् ( मिताक्षरा अ० २।२२२ ) ।
समुदयः - रागादीनां गणोयं स्यात्समुदेति नृणां हृदि ।
स्वभावाख्यः स स्यात्समुदयः पुनः ॥ ( सर्व० सं० पृ० ४६ बा
समुदाय:- दुःखकारणम् । तद्द्विविधम् । प्रत्ययोपनिबन्धनो हेतूप निबन्ध
 
नश्च ( सर्व० सं० पृ० ४० बौ० ) ।
 
-
 
प्रायेण
 
आत्मात्मीय
० //
 
PPP