This page has not been fully proofread.

न्यायकोशः ।
 
९६९
 
समाप्तपुनरात्तत्वम् -[ क ] क्रियान्वयेन शान्ताकाङ्क्षस्य विशेष्यवाचक-
" पदस्य विशेषणान्तरान्वयार्थ पुनरनुसंधानम् । नियताकाङ्क्षारहितान्वय-
बोधोत्तरं विशेष्यवाचकपदस्य पुनरनुसंधानम् इति समुदितार्थ: ( राम० १
पृ० २ ) । अत्र व्युत्पत्तिः समाप्ते वाक्यसमाप्तौ पुनरात्तता ग्रहणम्
इति । तच्च समाप्तपुनरात्तत्वम् विशेष्यवाचकपदनिष्ठः काव्यदोषः
उत्थाप्याकाङ्क्षास्थल एव प्रवर्तते न तूत्थिताकाङ्क्षस्थल इति बोध्यम्
( दि० मङ्गल० ) । यथा उदयति चन्द्रः कुमुदबन्धुः इत्यादौ समाप्त-
पुनरात्तत्वं दोषः । तदुदाहृतं चन्द्रालोके समाप्त पुनरात्तं स्यादेष पीयूष-
भाजनम् । नेत्रानन्दी तुषारांशुरुदेयम्बुधिबान्धवः ॥ इति । [ख]
केचित्तु निराकाङ्क्षबोधजनकवाक्योत्तरत्वविशिष्टतद्वाक्यघट की भूत पदार्था
•न्वित विशेषण बोधक पदवत्त्वम् इति वदन्ति ।
 
समाप्तिः - १ अवसानम् । तच्च तत्तद्वस्तुकालचरमसंबन्धः । यथा समाप्ते
यज्ञकर्मणि इत्यादौ । समाप्तिस्तु यस्मिन्ननुष्ठिते संपूर्णमिदं कर्म इति प्रमा ।
सा च ग्रन्थादौ चरमवाक्यलिखने यागादौ चरमाहुतौ पटादावन्त्यतन्तु-
• संयोगे ग्रामगमनादौ ग्रामचरणचरमसंयोगे प्रमा । एवं तत्र तत्रोहनीया
१० उ० ११ १/१ पृ० ५) । २ चरमवर्णः (त० प्र० १ ) ।
 
(वै०
 
यत्र ग्रन्थसमाप्तिः । ३ चरमवर्णजन्यं तद्वितीयक्षणोत्पन्नं तत्सजातीयं
 
वर्णान्तरम् । केचित्तु
 
४ आरब्धकर्मजन्यश्चरमवर्णपर्यन्तवर्णसमूहरूप-
पृ० २३ ) । चरमकृतिध्वंसः । यथा ग्रन्थसमाप्तिः स्वोत्पत्तिक्षणध्वंसः
ग्रन्थादि इत्याहुः । ५ चरमवर्णध्वंसः (त० प्र० १ ) (मू० म० १
स्वस्य समाप्तिः ( म० प्र० ) । आद्या प्रवृत्तिरारम्भः इति जैमिनीयारम्भ-
लक्षणानुसारादिदं लक्षणम् । तस्य चरमकृतिध्वंसस्य च स्वप्रतियोगि
• विषयत्वेन ग्रन्थनिष्ठत्वं बोध्यम् ( म०प्र० ) । ६ चरमवर्णजन्यम् आरब्ध-
कर्मचरमवर्णाशे लौकिक प्रत्यक्षात्मकम् आनुपूर्वी विशेष विशिष्टतावद्वर्ण-
•विषयक समूहालम्बनानुसंधानं समाप्तिः इत्यन्य आहुः ( मू० म० १.
पृ० २४ ) । ७ ज्ञानविशेष एवं समाप्ति इत्यपर आहुः ( म० वा०
पृ० ५ ) । ८ परिच्छेदः । ९ वधः । १० समाधानम् ( विश्वः ) ।
११ समर्थनम् ( मेदि० ) । १२ प्राप्तिः ( शब्दच ० ) ( वाच० ) ।)
 
:
 
१२२ न्या० को