2023-12-26 06:17:01 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
९६७
 
<समानवित्तिवेद्यत्वम्
 
>
तुल्यवित्तिवेद्यत्वम् (त० प्र० ख० ४ पृ० २१ ) ।
समान विभक्तिकत्वम् –

 
<समानविभक्तिकत्वम्>
[क] खप्रकृतिकविभक्तिसजातीयविभक्तिकत्वम् ।

यथा नीलो घटः इत्यादौ नीलपदघटपदयोः समान विभक्तिकत्वम् । इदं च

अभेदान्वय विषयकशाब्दबोधे प्रयोजकं भवति । अत्रेदमधिकं बोध्यम् । स-

मानविभक्तिकत्ववत् समानवचन कत्वमप्यभेदान्वयबोधे तन्त्रम् इति नियमः ।

तत्र व्यवस्था । यत्र विशेष्यवाचकपदोत्तर विभक्तितात्पर्यविषयसंख्याविरुद्ध-

संख्याया अविवक्षितत्वम् तत्र विशेष्यविशेषणपदयोः समान लिङ्गवचन-

कत्वनियमः इति । तेन पुरूरवोमार्द्रवसौ विश्वेदेवाः त्रयः समुदिता हेतुः

पितरो देवताः जात्याकृतिव्यक्तयः पदार्थाः प्रत्यक्षानुमानोपमानशब्दाः

प्रमाणानि इत्यादिषु विभिन्नलिङ्गवचनकस्थलेष्व भेदान्वयबोध उपपद्यते

( व्यु० का ० १ पृ० १ - ३ ) इति । अत्र विभक्तौ तादृशविभक्ति-

साजात्यं च विभक्तिविभाजकप्रथमात्वादिनावगन्तव्यम् । तेन वेदाः

प्रमाणम् शतं ब्राह्मणाः इत्यादौ समान विभक्तिकत्वं संपद्यते (ग० न्यु०

का० १ पृ० १) । [ ख ] केचित्तु विरुद्धविभक्तयनवरुद्धत्वम् । यथा

नीलमुत्पलम् नीलोत्पलम् इत्यादौ समानविभक्तिकत्वम् ( म० प्र० ४

०४८ ) । विरुद्ध विभक्तिराहित्यम् । त

विभक्तिशून्यभागेप्यस्ति इति ज्ञेयम् ( त० प्र० ४ पृ० ४६-४७ ) ।

घ] विशेषणपदस्य विशेष्यपदा प्रकृतिकविभक्तयप्रकृतित्वम् । यथा नील-

घटमानय नीलं घटमानय इत्यादौ समानविभक्तिकत्वम् इत्या

व्यु० १५० ३ ) । इदं च विरुद्धविभक्तिराहित्यरूपा समासव्यास-

साधारणकाङ्क्षा इत्युच्यते । तत्तु वैयाकरणखसूचिमानय इत्यादौ न
 
(
 

प्रामोति इति चिन्त्यम् ।
 
समान

 
<समान
विषयकत्वम् - >
तुल्यरूपविशेष्य विशेषणताशालित्वम् तद्विषयविषय-

कत्वं वा । यथा पर्वतो वह्निमान् पर्वतो महानसीयवह्निमांश्च इति निश्चययोः

समान विषयकत्वम् । कचित् अभावप्रतियोगिताबच्छेदकतया प्राह्मवृत्ति

धर्मावगाहित्वम् (ग० बाघ ० ) । यथा पर्वतो महानसीयवह्नयभाववान्

इति निश्चयस्यापि पर्वतो वह्निमान् इति बुद्धिसमानविषयत्वम् । अत्रेद-