न्यायकोशः /102
This page has been fully proofread once and needs a second look.
४८
लव्यतिरेकिणि तु सपक्षसत्त्वं नास्ति । सपक्षाप्रसिद्धेः (त० कौ०१२ ) ।
अबाधित विषयत्वमित्यत्र व्युत्पत्तिः अबाधितो विषयः साध्यं यस्येत्यबाधि-
तविषयः । तस्य भावः अबाधितविषयत्वम् इति । अत्राबाधित विषयत्वं च
प्रमाणान्तरेणाप्रमितसाध्याभावकत्वं बोध्यम् ( त० कौ० १२) ( सि०
च० २।२६ ) । असत्प्रतिपक्षत्वं च साध्याभावसाधकहेत्वन्तरशून्यत्वं
बोध्यम् (त० कौ० १२ ) ( सि० च० २ (२७) । [ख ] सत्सपक्ष-
विपक्षो हेतुः । यथा वह्निमान् घूमादित्यादौ (मु० २१९)। अत्र सपक्षस्य
महानसादेः विपक्षस्य जलहदादेव सत्त्वात् इति (मु० २१९ ) ।
[ग] अन्वयेन व्यतिरेकेण च व्याप्तिमत् ( त० सं० ) । अन्वयसह-
चारग्रहग्राह्यव्याप्तिमत्त्वे सति व्यतिरेकसहचारग्रहग्राह्यव्याप्तिमदित्यर्थः
(नील० २।२३ ) । [घ] यत्रान्वयव्याप्तिर्व्यतिरेकव्याप्तिश्च विद्यते तत् ।
यथा वह्निमान्धूमादित्यादौ निरुक्तपञ्चरूपोपपन्नो धूमः ( प्र० प्र० ) ( त०
कौ० १२ ) । अत्र पर्वतः पक्षः । तस्य वह्निमत्त्वं साध्यम् । धूमात्
इति हेतुः । तस्मिन् हेतौ यत्र यत्र घूमस्तत्र तत्र वह्निर्यथा महानसादौ
इत्यन्वयव्याप्तिः । यत्र यंत्र वह्नयभावस्तत्र तत्र धूमाभावः यथा जल-
हदादौ इति व्यतिरेकव्याप्तिश्चास्तीति ज्ञेयम् ( त० कौ० १२ ) ।
<अन्वयव्यतिरेकी
( अवयवः) [क] प्रतीतान्वयव्यतिरेकव्याप्ति
धको हेत्ववयवः (गौ० वृ० १ । १ । ३४ ) । [ ख ] अन्वयव्यतिरेकोदा-
हरणाकाङ्क्षाप्रयोजकहेतुत्वप्रतिपादकविभक्तिमन्न्यायावयवः । [ग ] पक्ष-
सपक्षसतो विपक्षासतो हेतोर्वचनम् ( चि० अव० २।७९ ) । यथा
पर्वतो वह्निमान्धूमादित्यत्र धूमात् इति पदम् ।
-
<अन्वयव्यभिचारः
( व्यभिचार ) । कारणसमवधानाव्यवहितोत्तरक्षणाव-
च्छेदेन कारणतावच्छेद कावच्छिन्न यत्किंचियत्तयधिकरणे कार्याभाव-
वत्त्वम् । कारणसखे कार्याभाव इति संक्षिप्तार्थः । यथा समाप्तिं
प्रति मङ्गलस्य कारणत्वे वक्तव्ये कादम्बर्यादा वाशङ्कितोन्वयव्यभिचार '
( त० दी० १।१ ) ।
-