This page has not been fully proofread.

९६५
 
न्यायकोशः ।
 
संयोगाद्यव्याप्त्यतिव्याध्युद्भावनेन परेण दूषिते त्वगग्राह्यचक्षुर्ग्राह्यगुण-
• विभाजकधर्मवत्त्वम् इति नीलकण्ठ्यां समाधानम् । [ख] केचित्तु
विवादभञ्जनम् । पूर्वपक्षस्य सम्यगुत्तरानुगुणसिद्धान्तानुकूलतर्कादिना
सम्यगर्थावधारणम् इत्याहुः । २ ध्येयवस्तुनि चित्तस्य निरन्तर स्थापनम्
इति योगशास्त्रज्ञा आहुः ।
 
-
 
समाधिः – १ समाधानम् । २ योगशास्त्रज्ञास्तु चित्तस्याभिमत विषय-
निष्ठत्वम् ( गौ० वृ० ४ । २ । ३६ ) । एकाग्रतया मनसः स्थापनरूपो
ध्येयमात्रस्फुरणरूपः ध्यानविशेष: इत्याहुः । अत्र सूत्रम् तदेवार्थमात्र-
निर्भासं स्वरूपशून्यमिव समाधिः ( पात० पा० ३ सू० ३ ) इति ।
तस्यैव कल्पनाहीनं स्वरूपग्रहणं हि यत् । मनसा ध्याननिष्पाद्यं समाधिः
सोभिधीयते ॥ ( वाच० ) इति पुराणमपि । समाधिर्नाम भावना ।
सा च भाव्यस्य विषयान्तरपरिहारेण चेतसि पुनः पुनर्निवेशनम्
( सर्व० सं० पृ० ३५६ पात० ) । समाधिः समतावस्था जीवात्म-
परमात्मनोः । ब्रह्मण्येव स्थितिर्या सा समाधिः प्रत्यगात्मनः ॥ ( सर्व०
सं० पृ० ३४७ पात ० ) । आलंकारिकास्तु ३ अर्थालंकारविशेषः ।
तत्रोक्तम् समाधिः सुकरे कार्ये दैवाद्वस्त्वन्तरागमात् ( सा० द०
परि० १० श्लो० ८६ ) इति । ४ काव्यगुणविशेषः समाधिः ।
तत्रोक्तम् श्लेषः प्रसाद: समता माधुये सुकुमारता । अर्थव्यक्तिरुदारव-
मोजःकान्तिसमाधयः ॥ इति वैदर्भमार्गस्य प्राणा दश गुणाः स्मृताः
( काव्याद ० ) इति । तस्यौजस्यन्तर्भावो यथा श्लेष: समाधिरौदार्थ प्रसाद
इति वै पुनः । गुणाश्चिरंतनैरुक्ता ओजस्यन्तर्भवन्ति ते ॥ ( सा० द
२० ८ श्लो० ९) इति । अत्रेदं ज्ञेयम् । समाधिरारोहावरोह-
क्रमरूपः । आरोह उत्कर्षः । अवरोहोपकर्षः । तयोः क्रमो वैरस्या-
नावहो विन्यासः । यथा चञ्चद्भुज ( वेणीसं० ) इत्यादि । अत्र पाद-
त्रये क्रमेण बन्धस्य गाढता । चतुर्थपादे त्वपकर्षः । तस्यापि च
दी० ) इति । ५ समाधिः मानसी व्यथा इति काव्यज्ञा आहुः ।
तीव्रप्रयत्नोच्चार्यत यौजस्विता ( सा० द० परि० ८ श्लो० ९-१०
 
परि०