This page has not been fully proofread.

९६४
 
न्यायकोशः ।
 
- भवति । २ मिलितम् । ३ समूहान्वितं संगतं च । यथा सेनाय
• समवेताः सैनिकाः ( अमर: २१८/६१ ) इत्यादौ इति काव्यज्ञा आहुः ।
समव्या तत्वम् – समनियतत्वम् ।
 
-
 
समष्टिः - ९ सम्यग्व्याप्तिः । २ वेदान्तिनस्तु संघीभूतः समस्तः पदार्थः ।
• रीश: सर्वेषां स्वात्मतादात्म्यवेदनात् । तदभावात्तदन्ये तुज्ञायन्तेष्ट-
• यथा मायावादिमते हिरण्यगर्भः ( वेदान्तसा० ) । अत्रोदाहियते समष्टि-
संज्ञया ॥ ( पञ्चद० १।२५ ) । यथा वा अन्येषां वेदान्तिनां मते
● गरुडानन्त विष्वक्सेनादयः समष्टिजीवाः इत्याहुः ( तत्त्वसंख्या ० ) ।
 
३ समस्तत्वम् इति काव्यज्ञा आहुः ।
 
विधिनि०
 
समाख्या - १ अन्वर्था संज्ञा । यथा अयोनिजेषु शरीरेषु मनुमरीचिदुर्वासः-
• संज्ञा (वै० उ०४/२/८ ) ( वै० वि० ४/२/८ ) । २ मीमांसकास्तु
यौगिकः शब्दः । अत्रोक्तम् स्थानं क्रमो योगबलं समाख्या ( शाख-
दीपिका ) इति । सा च समाख्या द्विविधा वैदिकी लौकिकी चेति ।
तत्राद्या यथा होतृचमस: हारियोजनः इत्यादिः । अत्र होतृचमस
इत्यनया वैदिकसमाख्यया होतुश्चमसभक्षणाङ्गत्वं बोध्यते (लौ०
ने० पृ० २८) । अत्र चमसस्थसोमभक्षणे श्रुतिः हविधान
चर्मन्नधि ग्रावभिरभिषुत्याहवनीये हुत्वा प्रत्यञ्चः परेत्य सदसि भक्षयन्ति
( तैत्तिरीयसंहिता ६।२।११) इति । हारियोजनशब्दार्थस्त हरिरसि
हारियोजनः इत्यनेन मन्त्रेण गृह्यमाणो ग्रहो हारियोजनः (लौ० भा०
विधिनि० टी० पृ० २८ ) । लौकिकी समाख्या तु याज्ञिकैः परि
( लौ० भा० टी० पृ० २८) । सा यथा आध्वर्यवम् इत्यादिः ।
आध्वर्यवं काण्डम् इत्यर्थः । अनया लौकिकसमाख्यया पुरोध्वर्युि
इत्यादिना यजुर्वेदेन विहितानां पदार्थानामङ्गत्वमध्वयबध्यते (०
- भा० टी० पृ० २८) इत्याहुः । ३ कीर्तिः इति काव्यज्ञा आहुः /
समाधानम् - १ [ क ] उद्भावितदूषणनिवर्तकवाक्यप्रयोगः । यथा
" चक्षुर्मात्र ग्राह्यत्वविशिष्टगुणत्वात्मके रूपलक्षणे परमाणुरूपप्रभाभित्ति-
भा
 
परिकल्पिता