न्यायकोशः /1017
This page has not been fully proofread.
न्यायकोशः ।
समवायिकारणम् – (कारणम् ) [ क ] यत्समवेतं कार्यमुत्पयते तत् ।
यथा तन्तवः पटस्य पटश्च स्वगतरूपादेः समवायिकारणम् (त० सं० ) ।
यत्समवेतमित्यस्यार्थश्च यस्मिन्समवायेन संबद्धं सत् कार्यमुत्पद्यते तत्
( न्या० बो० ) । यद्वा यद्धर्मावच्छिन्नं यद्धर्मावच्छिन्ने समवायेंनोत्पद्यते
तद्धर्मावच्छिन्नं प्रति तद्धर्मावच्छिन्नं समवायिकारणम् (नील० १
पृ० १७ ) इति । तथा हि तन्तुषु समवायेन संबद्धं सत् पटात्मक कार्य -
मुत्पद्यते । अतः तन्तुः पटस्य समवायिकारणं भवति ( न्या० बो० १
पृ० ९) इति । समवायिकारणत्वं च समवायसंबन्धेन कार्याधिकरण-
त्वम् (ल० व० ) ( वाक्य० १ पृ० १० ) । अर्थ वा समवायसंबन्धा-
बच्छिन्न कार्यतानिरूपिततादात्म्यसंबन्धावच्छिन्नकारणत्वम् । तथा हि ।
समवायसंबन्धेन घटाधिकरणे कपालादौ कपालादेस्तादात्म्यसंबन्धेनैव
सत्त्वात् समवायेन घटं प्रति तादात्म्येन कपालं कारणम् इति कार्यकारण-
भावः इति । समवायसंबन्धावच्छिन्न घटत्वावच्छिन्न कार्यता निरूपिततादा-
यसंबन्धावच्छिन्न कारणतायाः कपालादौ सत्त्वाल्लक्षणसमन्वयः ( न्या०
१ पृ० ९) । अत्र नियमः समवायिकारणत्वं द्रव्यमात्रवृत्ति
इति (भा०प० श्लो० २३ ) ( वै० १०/२/१ ) । अत्राहुरपरे
• तन्तूनां समवायिकारणत्वेपि तुरीतन्तुसंयोगद्वारा निमित्तकारणत्वमपि
द्रव्यस्य समवायिकारणत्वेपि निमित्तकारणत्वमप्यस्ति । तथा हि पटं प्रति
तेषां विद्यते तुरीवत् ( त० व० २ । ३३ ) ( वे० उ० १०/२/२ )
इति । [ख ] स्वसमवेतकार्योत्पादकम् । तच द्रव्यमेव भवति ।
ग उपादानकारणम् इति सांख्यमायावादिवेदान्तिप्रभृतय आहुः ।
अस्मिन्मते उपादानत्वं च परिणामित्वम् इति ज्ञेयम् । उपादानं निमित्तं
च इति द्विविधमेव कारणम् इति च ज्ञेयम् ( प्र० च० पृ० १३) ।
समवायित्वम-१ समवायानुयोगित्वम् । यथा कपाले घटसमवायित्वम्
• गुणक्रिययोश्च समवायित्वं द्रव्ये । २ विद्यमानत्वम् इति काव्यज्ञा वदन्ति ।
समवेतम् -१ कस्मिंश्चित् द्रव्यगुणकर्मात्मके वस्तुनि समवायसंबन्धेन
• विद्यमानम् । यथा मृदा समवायेनोत्पाद्यं घटात्मकं कार्य कपाले समवेतं
बो०