2023-12-26 06:12:24 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

९६२
 
न्यायकोशः ।
 
योग्य प्रतियोगिकत्वे सति विशेषणतया योग्यवृत्तित्वात् भूतळादिवृत्ति-

घटायन्ताभावादिवत् इत्यादि ( वै० वि० ७ १२१२८ ) । एतन्मते च

समवाय प्रत्यक्षं प्रति इन्द्रियसंबद्ध विशेषणतासंनिकर्षो हेतुः इति -

कारणभावो ज्ञेयः (मु० ) (वै० वि० ७१२/२८ ) । इह् कपा

घटसमवायः इति प्रत्यक्षं विशेषणतासंनिकर्षेणैव भवति ( प्र० प्र०)

( त० कौ० ) इति । समवायोतीन्द्रियः अनुमेय एव इति वैशेषिका

आहुः । वैशेषिकमते समवायस्यातीन्द्रियत्वे प्रमाणमनुमानम् /

समवायोतीन्द्रियः । चेतनान्यत्वे सति असमवेतभावत्वान्मनोवत् आका-

शादिवद्वा (वै० वि० ७१२१२८) (वै० उ० ७१२/२८) इति ।

समवायो न प्रत्यक्षः । संबन्धप्रत्यक्षे यावदाश्रयप्रत्यक्षस्य हेतुत्वात् ।

कथा घटकासंयोगोन
 
आश्रयाः प्रत्यक्षाः । परमाण्वादेरयोग्यत्वात् ( न्या० म० ११० ७)

इति । अनुमानं तु गुणक्रियादिविशिष्टबुद्धिर्विशेष्यविशेष

विशिष्टबुद्धित्वात् दण्डी पुरुषः इति विशिष्टबुद्धिवत् (मु० ११०.३९)

इति । इदमनुमानं समवायसद्भावे प्रमाणं भवति (वै० वि० ७/२/२६)

(मु० १ पृ० ३९ ) । सर्वत्र स्वरूपस्यैव संबन्धत्वोपपत्तौ समवायो न

पदार्थान्तरम् इति भट्टा वेदान्तिनः सांख्याश्च मन्यन्ते ( ता० २०

को० ५४ ) (३० उ०७/२/२८) (वै० वि० ४/२/११)

(दि० १) (सि० च० ) ( राम० १ पृ० १२२) । तत्र माध्या-

भावात् । आत्मनस्तद्धर्माणां च साक्षिविषयत्वेन मनोविषयत्वाभावात् ।

वर्णात्मक शब्दाव्यत्वेनाकाश विशेष गुणत्वाभावात् (प्र

इति । गुणकर्मसामान्यादिभिर्द्रव्यस्य भेदाभेदौ । तत्र यावद्रव्यभाविना

गुणकर्म सामान्यादिना द्रव्यस्यात्यन्ताभेद एव । अयावद्रव्यभाविना तु

भेदः ( प्र० च० परि० २ पृ० ५२) इति । २ समवाया

समूहः । ३ मेलनं च यथा सेनायां समवेताः (अमरः २/८/६१ /
 

इत्यादौ इति काव्यज्ञा आहुः ।
 
N
 
Pr
 
प्र०प० पृ० ११)
 
SIR PAP