This page has not been fully proofread.

न्यायकोशः ।
 
९६१
 
e
 
:
 
वायसिद्धिः । अन्यथा स्वाश्रयवृत्तित्वसंबन्धेन हेतुत्वे नीलकंपालसंयुक्त-
शुक्ककपालादावपि नीलोत्पत्स्यापत्तेः ( म० प्र० १ पृ० १२ ) । अत्र
समवायसंबन्धेन पटत्वावच्छिन्नं प्रति तादात्म्यसंबन्धेन तन्तुत्वेन हेतुत्वा-
कार्यतावच्छेदक संबन्ध विधया समवायसिद्धिः ( दि० १ पृ० ३९ ) ।
युतसिद्धयोः संयोग इवायुतसिद्धयोः समवाय आवश्यकः इत्यपि बोध्यम्
। (त० कौ० ) । समवायत्वं च नित्यसंबन्धत्वम् ( त० सं० ) ( मु० ) ।
अत्र संयोगादिवारणाय नित्यत्वम् । गगनादिवारणाय संबन्धः इति ।
संबन्धत्वं चात्र स्वरूपत्वान वच्छिन्नसांसर्गिक विषयताश्रयत्वम् । तेन
गगनादीनां स्वरूपत्वेन संबन्धत्वेपि न क्षतिः । संयोगसमवायान्यतरत्वं
वा संबन्धत्वम् (प० मा० पृ० ३८ ) । अथ वा समवायत्वं संबन्ध -
प्रतियोग्यनुयोगिभिन्नत्वे सति संबन्धध्वम् । तेन प्रतियोग्यनुयोगित्वात्मक-
खरूपसंबन्धे नातिव्याप्तिः (राम० १ पृ० ३९) (ता० र० श्लो० ५४ ) ।
इह गवि गोत्वम् इत्यादिप्रत्ययविषयसंबन्धत्वम् समवायत्वम् (प० मा०
पृ० ३८ ) । समवायस्तु समवायरहितः संबन्ध: ( सर्व० सं० पृ०
२१७ औ० ) । सर्वत्र समवायस्त्वेक एव नित्यश्च इति न्यायवैशेषिक
सिद्धान्तः । अत्र एकत्वं च स्वाश्रयान्योन्याभावासमानाधिकरणपदार्थ-
विभाजकोपाधिमत्त्वम् ( प्र० च० ) । अत्रैकत्वसाधने प्रमाणभूतं सूत्रं च
• तत्त्वं भावेन (वै० ७ १२१२८ ) इति । नित्यत्वे इत्थमनुमानम् । स चायं
समवायः नित्यः । अकारणकत्वात् । भावानां हि समवायिकारणा-
दुत्पत्तिनियमः । तदनुरुद्धे च निमित्तासमवायिनी इति । तथा च सम
वायस्य समवायिकारणकल्पने अनवस्थादिदोषप्रसङ्गः इति समवायस्
नित्यत्वम् (वै० उ०७/२/२६ पृ० ३५० ) / अत्रेदं बोध्यम् ।
नैयायिकानां मते समवायत्वं न जातिः । तद्बाधकस्यासंबन्धस्य सत्त्वात् ।
यद्यपि समवायत्वजातिबाधको व्यत्तयभेद एव तथापि प्राभाकरा दिमते
• इति ज्ञेयम् ( वै० उं० ११ १/३ ) । समवायो नाना अनित्यश्च इति
उत्पादविनाशशीला बहवः समवायाः । तन्मते असंबन्ध एव जातिबाधकः
• प्राभाकरा नव्याश्चाहुः । प्रत्यक्षः समवायः इति नैयायिका आहुः ।
समवायस्य प्रत्यक्षत्वसाधकानुमानं च समवायो लौकिकप्रत्यक्षविषयः
 
AERON
 
१२१ न्या० को०
 
C