This page has not been fully proofread.

न्यायकोशः ।
 
( प्रशस्त ० १ पृ० २५) इति । स च अयुतसिद्धयोः संबन्धः
( त० भा० १ ) । स च यथा अवयवावयविनोः गुणगुणिनोः क्रिया-
क्रियावतोः जातिव्यक्त्योः विशेषनित्यद्रव्ययोश्च संबन्ध: ( त० सं० )
( प० मा० पृ० ३८) । यथा घटकपालयोः संबन्धः समवायः ।
एवमन्यत्रा प्यूह्यम् । तदुक्तम् घटादीनां कपालादौ द्रव्येषु गुणकर्मणोः ।
तेषु जातेश्च संबन्धः समवायः प्रकीर्तितः ॥ ( भा०प० श्लो० ११)
इति । अत्र भाष्यम् । अयुतसिद्धानामाघार्याधारभूतानां यः संबन्धः
इहप्रत्ययहेतुः स समवायः । द्रव्यगुणकर्मसामान्यविशेषाणां कार्यकारण
• भूतानाम् अकार्यकारणभूतानां वा अयुतसिद्धानामाधार्याधारभवेनाव-
स्थितानाम् इदम् इति बुद्धिर्यतो भवति यतश्चासर्वगतानामधिगतान्य-
त्वानामविष्वग्भावेनावस्थितानाम् स समवायाख्यः संबन्धः । कथम् ।
 
यथा इह कुण्डे दधि इति प्रत्ययः संबन्धे सति दृष्टः । तथा इह तन्तुषु
पटः इह वीरणेषु कटः इह द्रव्ये च द्रव्यगुणकर्माणि इह द्रव्यगुणकर्मल
सत्ता इह द्रव्यं द्रव्यत्वम् इह गुणे गुणत्वम् इह कर्मणि कर्मत्वम् इह
नित्यद्रव्येष्वन्त्या विशेषाः इति इहप्रत्ययदर्शनात् अस्त्येषां संबन्धः इति
विज्ञायते । न चासौ संयोगः । संबन्धिनामयुतसिद्धत्वात् । अन्यतरकर्मा-
दिनिमित्तस्याभावात् । विभागान्तत्वादर्शनात् । अधिकरणाधिकर्तव्य
सच द्रव्यादिभ्यः पदार्थान्तरम् । स च प्रमाणतः कारणानुपले.
योरेव च भावादिति । भाववल्लक्षणभेदात् भाववत्सर्वत्रैकः समवायः /
नित्यः । तस्मात्स्वात्मवृत्तिः । अत एव चातीन्द्रियः । सत्तादीनामिव प्रत्य-
क्षेषु वृत्त्यभावात् । स्वात्मगतसंवेदनाभावाच । तस्मात् इहबुद्ध्य
समवायः ( प्रश० पृ० ६७ ) । समवायसत्त्वे प्रमाणं तु अनुमानम् ।
तच्च जात्यादिगोचरो विशिष्टव्यवहारः संबन्धनियतः । भावमात्र विषया
बाधित विशिष्टव्यवहारत्वात् । सघटं भूतलम् इति व्यवहारवत् (न्या०
ली० पृ० ५४ ) इति । घटे घटत्वं रूपं च समवेतम् तन्तुषु पठः
समवेतः इह कर्म समवेतम् इत्यनुगतसमवाया कारप्रतीत्या तत्सिद्धिः
( न्या० म० १ पृ० ९ ) । वस्तुतस्तु स्वाश्रय समवेतत्व संबन्धेनावयव
• नीलादेवय विनीलादौ हेतुत्वाकारणतावच्छेदकसंबन्धघटका