2023-12-26 06:09:16 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
९५९
 
पृ० ३४१ ) (बै० वि० ) ( भवा० ) । अन्यत्सर्वे शक्ति संकेत इत्येत-

च्छब्दव्याख्याने द्रष्टव्यम् । २ नियमबन्धः । ३ शास्त्रम् । ४ कालः ।

५ सिद्धान्तः । ६ शपथः । ७ आचारः । ८ अङ्गीकारः । ९ क्रिया-

कारकः । १० निर्देशः । ११ भाषा ( मेदि० ) । १२ संपत् ।

१३ कालविज्ञानम् ( शब्दच० ) ।

 
<
समर्थ :– क़ः>
१ यत्किंचिदर्थंकारी । यत्किंचित्कार्यप्रयोजकः इति यावत् ।

२ शाब्दिकास्तु संगतार्थः । स च अन्वयान्वयिभावापन्नोर्थः इत्याहुः ।

३ शक्तः । ४ हितश्च इति काव्यज्ञा आहुः (अमरः ३।३।८६ ) ।

समर्थत्वं च सामर्थ्यम् । तच्च सामर्थ्यशब्दे दृश्यम् ।
 

समर्थनम्
समर्थना
 

- १ ( लोडर्थ: ) पराशक्यधर्मिक स्वशक्यत्वाध्यवसायः ।
 

 
awadi
 

 
• यथा पर्वतमप्युत्पाटयानि समुद्रमपि शोषयाणि इत्यादौ लोडर्थः । तथा च

• खेतराशक्यं यत् पर्वतोत्पाटनम् तद्धर्मिकस्वशक्यत्वाध्यवसायवान् इत्येवं

तत्रान्वयबोधः । अथ वा पर्वतमप्युत्पाटयानि समुद्रमपि शोषयाणि

इत्यादौ निपातस्यैवार्धात्वर्थान्वितं पराशक्यत्वमर्थः । तिङस्तु स्वशक्यता-

घ्यवसायमात्रम् । अध्यवसायोवधारणम् ( श० प्र० श्लो० १००

टी० पृ० १४५ १४६ ) । २ इदमित्यमेव इति निश्चयहेतूपन्यासेन

• निश्वायकव्यापारविशेषः इति केचिदाहुः । ३ युक्तायुक्तत्वेन परीक्षणम्

( अमर: २ क्षत्रियव० श्लो० २५ टी० ) ।

समवाहितत्वम् - १ एककालीनत्वम् ( मू० म० १) । यथा घटसमवहितः

पटः इत्यादौ समवहितत्वशब्दार्थः । २ सहवृत्तित्वम् । यथा मण्यादि-

समवहितेन वहिना दाहो न जन्यते ( त० दी० ) इत्यादौ समवहित-

स्वशब्दस्यार्थः । ३ सम्यगवधानयुक्तत्वम् इति साहित्यशास्त्रज्ञा आहुः ।

समवायः -- १ ( पदार्थ: ) इहेदमिति यतः कार्यकारणयोः स समवायः
 

 
-
 

 
(वै०
 

 
७२/२६) । तदर्थश्च कार्यकारणयोरवयवावयविनोर्यतः

सबन्धात् इहेदम् इति प्रत्ययः स समवायः (३० वि० ७/२/२६ ) ।

●अयुत सिद्धानामाधार्याधारभूतानां यः संबन्धः इहप्रत्ययहेतुः स समवायः