2023-12-26 06:08:19 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

९५८
 
न्यायकोशः ।
 
घटमानय इत्यादौ क्रियापदस्य द्वितीयान्तघटपदसमभिव्याहारः । [ग]

साक्षात्परंपरया वा तत्पदप्रयोज्यविषयतानिरूपित विषयताप्रयोजकत्वमिति

केचिदाहुः । २ शेषशेषिवाचकपदयोः सहोच्चारणम् इति मीमांसका
 

आहुः । ३ साहित्यम् इति काव्यज्ञा आहुः ।
 

 
<
समभिव्याहृतत्वम् - >
१ एकवाक्यतापनत्वम् । यथा पदानां समभिव्याहृत-

त्वमाकाङ्क्षा इत्यादौ समभिव्याहृतत्वशब्दस्यार्थः । २ साहित्यम् । ३ सहो-

चरितत्वम्। ४ अव्यवहितत्वं च इत्यन्ये आहुः ।
 

 
<
समभिहारः>
१ पौनःपुन्यम् । यथा क्रियासमभिहारेण विराध्यन्तं क्षमेत

कः ( माघ ० २ ४३ ) इत्यादौ समभिहारशब्दस्यार्थः । २ सातत्यम्

इति शाब्दिका आहुः । ३ भृशम् इति काव्यज्ञा आहुः ।
समम् –

 
<समम्>
(अव्ययम् ) १ साहित्यम् । यथा समं रामेण लक्ष्मणः इत्यादौ ।

२ एकदा ( युगपत् ) इत्यर्थः । यथा सममेव समाकान्तं द्वयं द्विरद-

गामिना ( रघु० ४।४ ) इत्यादौ ।
 

 
<
समयः>
१ [क] अस्य शब्दस्येदमर्थजातमभिधेयम् इत्यभिधाना मिषेय-

नियमनियोगः ( शक्तिः ) । तस्मिन्नुपयुक्ते शब्दादर्थसंप्रत्ययो भवति

( वात्स्या० २।१९।५५ ) । [ख ] ईश्वरसंकेतः । अस्माच्छन्दादयमर्थो

बोद्धव्यः इत्याकारः । यथा सामयिकः शब्दादर्थप्रत्ययः (वै० ७/२/२०)

इत्यादौ समयशब्दस्यार्थः । यः शब्दो यस्मिन्नर्थे भगवता संकेतितः सं

तमर्थं प्रतिपादयति । तथा च शब्दार्थयोरीश्वरेच्छेव संबन्धः । स एव

समयः । तदधीनः शब्दादर्थप्रत्ययः (वै० उ० ७/२/२०) / मम्मट

भट्टस्तु नाभिधा समयाभावात् ( काव्यप्र० २१ २२ ) इत्यादिग्रन्थेनाभिधा-

समययोर्भेदमुरीचकार । अत्र नैयायिकैः साध्यसमो दोष उद्भाव्यते ।

नायं दोषः । अभिधासमययोस्तैर्भेदाङ्गीकारात् इति

विज्ञेयम् । समयश्च जातिमात्रे । व्यक्तेराक्षेपत एवोपस्थितेः । इतितौतातिका

आहुः । जातौ व्यक्तौ चोभयत्र शक्तिः । किं तु जात्यंशे ज्ञाता व्यत्तयंशे

व्यक्त्याकृतिजातयः पदार्था: इति वृद्धा आहुः (वै० ३० ७/२/२०
 
-