न्यायकोशः /1012
This page has not been fully proofread.
९५८
न्यायकोशः ।
घटमानय इत्यादौ क्रियापदस्य द्वितीयान्तघटपदसमभिव्याहारः । [ग]
साक्षात्परंपरया वा तत्पदप्रयोज्यविषयतानिरूपित विषयताप्रयोजकत्वमिति
केचिदाहुः । २ शेषशेषिवाचकपदयोः सहोच्चारणम् इति मीमांसका
आहुः । ३ साहित्यम् इति काव्यज्ञा आहुः ।
समभिव्याहृतत्वम् - १ एकवाक्यतापनत्वम् । यथा पदानां समभिव्याहृत-
त्वमाकाङ्क्षा इत्यादौ समभिव्याहृतत्वशब्दस्यार्थः । २ साहित्यम् । ३ सहो-
चरितत्वम्। ४ अव्यवहितत्वं च इत्यन्ये आहुः ।
समभिहारः – १ पौनःपुन्यम् । यथा क्रियासमभिहारेण विराध्यन्तं क्षमेत
कः ( माघ ० २ ४३ ) इत्यादौ समभिहारशब्दस्यार्थः । २ सातत्यम्
इति शाब्दिका आहुः । ३ भृशम् इति काव्यज्ञा आहुः ।
समम् – (अव्ययम् ) १ साहित्यम् । यथा समं रामेण लक्ष्मणः इत्यादौ ।
२ एकदा ( युगपत् ) इत्यर्थः । यथा सममेव समाकान्तं द्वयं द्विरद-
• गामिना ( रघु० ४।४ ) इत्यादौ ।
समयः – १ [क] अस्य शब्दस्येदमर्थजातमभिधेयम् इत्यभिधाना मिषेय-
नियमनियोगः ( शक्तिः ) । तस्मिन्नुपयुक्ते शब्दादर्थसंप्रत्ययो भवति
( वात्स्या० २।१९।५५ ) । [ख ] ईश्वरसंकेतः । अस्माच्छन्दादयमर्थो
बोद्धव्यः इत्याकारः । यथा सामयिकः शब्दादर्थप्रत्ययः (वै० ७/२/२०)
इत्यादौ समयशब्दस्यार्थः । यः शब्दो यस्मिन्नर्थे भगवता संकेतितः सं
तमर्थं प्रतिपादयति । तथा च शब्दार्थयोरीश्वरेच्छेव संबन्धः । स एव
समयः । तदधीनः शब्दादर्थप्रत्ययः (वै० उ० ७/२/२०) / मम्मट
भट्टस्तु नाभिधा समयाभावात् ( काव्यप्र० २१ २२ ) इत्यादिग्रन्थेनाभिधा-
समययोर्भेदमुरीचकार । अत्र नैयायिकैः साध्यसमो दोष उद्भाव्यते ।
• नायं दोषः । अभिधासमययोस्तैर्भेदाङ्गीकारात् इति
• विज्ञेयम् । समयश्च जातिमात्रे । व्यक्तेराक्षेपत एवोपस्थितेः । इतितौतातिका
आहुः । जातौ व्यक्तौ चोभयत्र शक्तिः । किं तु जात्यंशे ज्ञाता व्यत्तयंशे
व्यक्त्याकृतिजातयः पदार्था: इति वृद्धा आहुः (वै० ३० ७/२/२०
-