2023-12-26 06:05:02 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
९५५
 
संबन्धावच्छिन्नाधेयताप्रतियोगिकः अभावः नञा बोध्यते इति सर्वे सुस्थम्

इति प्राहुः ( का० व्या० पृ० ११ ) । आधारत्वं च कर्तृकर्मद्वारा

बोध्यम् । तत्र कारकत्व निर्वाहार्थ परंपरासंबन्धस्यापि क्रियान्वयित्वरूप-

कारकत्वघटकतावश्यकी । यथा भूतले घटोस्ति इत्यादौ भूतलपदोत्तरस-

तम्यर्थः । अत्र भूतलवृत्तिघटो वर्तमानसत्ताश्रयः इति बोधः । नञ्समभि-

व्याहारे तु तादृशसप्तम्यर्थाभावो घटांशे भासते इति नैयायिकानां मतम्

( वै० सा० द० सुबर्थ ० पृ० ८७ ) । वैयाकरणमते तु आश्रयः (अधि-

करणम् ) सप्तम्यर्थः । कर्तृकर्मद्वारा धात्वर्थाश्रयः इत्यर्थः । यथा भूतले

घटोस्ति गेहे तण्डुलं पचति इत्यादौ भूतलादिपदोत्तरसप्तम्यर्थः । अ

सप्तम्यधिकरणे च ( पाणि० २/३/३६) इति सूत्रम् । तदर्थश्च

गेहे चैत्र ओदनं पचति स्थाल्यामोदनं पचति इत्यादौ गेहस्य कर्तृद्वारा

शाब्दिकमते कर्तृकर्मान्यतरद्वारा क्रियाश्रयोधिकरणम् तत्र सप्तमी इति ।

'स्थाल्याश्च कर्मद्वारा क्रियाश्रयत्वादधिकरणत्वम् । तथा च क्रियारहितं

वाक्यमप्रमाणम् इति परंपरया क्रियाश्रयात्मकाधिकरणस्यैव सप्तम्यर्थत्वम् ।

इत्थं च यत्र न क्रियाश्रवणम् गेहे घट इत्यादौ तत्र कारकत्व निर्वाहाय

क्रियाध्याहार आवश्यकः । एवं च गेहे घटः इत्यादी क्रियापदाध्याहा-

रेणैवाधिकरणत्वबोधः इति । तार्किकमते तु यत्राधिकरणत्वमांधेयत्वादि वा

सप्तम्या बोध्यते तद्वाचकपदात्सप्तमी इति सूत्रार्थः । तथा च अधि-

तंत्र कारकत्वव्यवहारः । भूतले घटः इत्यक्रियवाक्यादपि शाब्दबोधस्या-

करणत्वमात्रम् आधेयत्वमात्रं वा सप्तम्यर्थः । स च यत्र क्रियायामन्वेति

नुभवसिद्धत्वात् । तद्वदेव गेहे घटः इत्यादावपि क्रियापदं विनापि
 

गेहाधेयत्ववान्
 
घटः
 
घटः
 
इति बोधो नानुपपन्न इति अत्रया सप्तमी न
 

कारक विभक्तिः अपि त कारकार्थान्यैव (का० व्या० पृ० ११) इति ।

अत्र प्रमाणम् सप्तम्यधिकरणे च ( पाणि० २/३/३६) इत्यत्र च-
2
 

। बद्भिन्ने यः साध्याभावः ( दीधि० व्याप्तिनि० ) इति सप्तमीतत्पुरुषेण

कारेणाकारकाधारवाचिनोपि सप्तमी विधीयत इति । अत एव साध्य-

त्रिविधम् औपश्लेषिकम् वैषयिकम् अभिव्यापकं चेति । तत्राद्यस्योदाहरणं

व्याख्यानं संगच्छते ( ग० व्यु० का ७ पृ० ११६ ) । अधिकरणं च
 
३*