This page has not been fully proofread.

न्यायकोशः ।
 
लेभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः । पिण्डदः सप्तमस्त्वेषां
सापिण्ड्यं साप्तपौरुषम् ॥ ( मत्स्यपु० ) इति । तत्र शरीरावयवान्वय-
सापिण्ड्यम् आशौच विवाह दायग्रहण एतेषु त्रिष्वप्युपयुज्यते इति हेमाद्रि-
माधवविज्ञानेश्वरस्मृति चन्द्रिकाकार मित्र मिश्रकमलाकरादीनां मतम् । अत्रो-
क्तम् वध्वा वरस्य वा तातः कूटस्थाद्यदि सप्तमः । पञ्चमी चेत्तयोर्माता
तत्सापिण्ड्यं निवर्तते ॥ इति धर्मसिन्धौ धृतं वाक्यम् । पञ्चमात्सप्तमा-
दूर्ध्वं मातृतः पितृतस्तथा (याज्ञव० ११५३ ) इति । तथा च पित्रा-
दयः षट् सपिण्डाः पुत्रादयश्च षट् आत्मा च सप्तमः ( मिता० ११५३ )
इति । कामधेनुहारलताकल्पतरुपारिजातकारादीनां तन्मतानुसारिजीमूत
षाहनस्य च मतं तु सपिण्डता हि विषयभेदेन त्रिविधा आशौचोप-
योगिनी विवाहोपयोगिनी दायग्रहणोपयोगिनी च । तथा च शरीरा-
न्वयसापिण्ड्यमाशौचे विवाहे चोपयुज्यते । निर्वाप्यपिण्डान्वयसापिण्ड्यं
तुदायग्रहणे उपयुज्यते इति । यथोदाहृतं ( शु० त० ) रघुनन्दनेन
लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः । पिण्डदः सप्तमस्त्वेषां
सपिण्ड्यं साप्तपौरुषम् ॥ ( मत्स्यपु० ) इति । हारलतायां कूर्मपुराणं
च सपिण्डता तु पुरुषे सप्तमे विनिवर्तते । समानोदकभावस्तु जन्मना-
भोरवेदने ॥ पिता पितामहश्चैव तथैव प्रपितामहः । लेपभाजश्चतुर्थाद्याः
• सापिण्ड्यं साप्तपौरुषम् ॥ इति । भ्रात्रादीनामपि सापिण्डयमुक्तं बौधाय
नेन प्रपितामहः पितामहः पिता स्वयम् सोदर्यभ्रातरः सवर्णायाः पुत्रः
पौत्रः प्रपौत्रो वा एतानविभक्तदायादान् सपिण्डानाचक्षते । विभक्त-
• दायादान् सकुल्यानाचक्षते असत्स्वङ्गजेषु तद्गामी ह्यर्थो भवति इति ।
किंच स्त्रीणामपि भर्तृसापिण्ड्येन सापिण्ड्यम् । अनूढायाः कन्यायास्तु
त्रिपौरुषं सापिण्यम् । तथा च गोत्रैक्ये सति पिण्डलेपयोर्दातृत्व-
देहसंबन्धवत्वं विवाहसापिण्ड्यम् । त्रिपुरुषपर्यन्तं देयपिण्डदातृस्वभोक्त-
मोक्तृत्वान्तवमाशौचसापिण्ड्यम् । साक्षात्परंपरया वा सप्तमपर्यन्त
स्वान्यतरवस्वं दायग्रहणे सापिण्ड्यम् इति वनदेशीयानां जीमूतवाहना-
दीनां मतं बोध्यम् ( वाच ० ) । अधिकं तु तत्तद्धर्मशास्त्र प्रन्थेष्वम्वेषणी-
पम् इत्यलं विस्तरेण ।
 
१२० न्या० को०